SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तो भवति, तस्य च योजनस्य यदुपरितनं गव्यूतं चतुर्थं तस्य च गव्यूतस्य यः सर्वोपरितनो षड्भागो अत्र 'ण' इति वाक्यालङ्कारे सिद्धा भगवन्तः सादिकाः कर्मक्षयानन्तरं सिद्धत्वभावात् , एतेन अनादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः, अपर्यवसिता रागाद्यभावेन प्रतिपातासंभवात् , रागादयो हि सिद्धत्वाच्यावयितुं प्रभविष्णवः, न च ते भगवतां सन्ति, तेषां निर्मूलकाकषितत्वात् , न च निर्मूलकाकषिता अपि भूयः प्रादुर्भवन्ति, बीजाभावादिति, तथा अनेकैर्जातिजरामरणैः-जन्मजरामृत्युभिर्यश्च तासु तासु योनिषु संसारः-संसरणं तेन च यः कलंकलीभावः-कदर्थ्यमानता यश्च दिव्यसुखमनुप्राप्तानामपि पुनर्भवे-संसारे गर्भवसतिप्रपञ्चः तो समतिक्रान्ता अत एव शाश्वतमनागतं कालं तिष्ठन्ति, 'तत्थवि य ते अवेया' इत्यादि, तत्रापि च-सिद्धक्षेत्रे गताः सन्तस्ते-भगवन्तः 'अवेदाः' पुरुषवेदादिवेदरहिताः 'अवेदनाः' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बाह्याभ्यन्तरसङ्गरहिताः, कस्मादेवम् ? अत आह-संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद् विप्रमुक्तास्तस्मादवेदा अवेदना निर्ममा असङ्गाश्च, पुनः कथंभूताः ? इत्याह 'पएसनिवत्तसंठाणा' प्रदेशैः-आत्मप्रदेशैर्न तु बाह्यपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निर्वृत्तं-निष्पन्नं संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः, अत्र शिष्यः पृच्छन्नाह'कहिं पडिहया सिद्धा' इत्यादि 'कहि' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात् , यथा 'तिसु तेसु अलंकिया पुढवी' इत्यादि, ततोऽयमर्थः-केन प्रतिहताः?-केन स्खलिताः? सिद्धाः-मुक्ताः, तथा क-कस्मिन् स्थाने सिद्धाःप्रतिष्ठिताः Jain Education M o nal For Personal & Private Use Only Mondinelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy