SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्तौ. २ स्थानपदे व्यन्तरस्थानं सू. ४७ ॥९६॥ चलचपलचित्तक्रीडनद्रवप्रियाः ततश्च चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयणचणरई गम्भीरेषु हसितगीतनर्तनेषु रतिर्येषां ते तथा, 'वणमालामेलमउडकुंडलसच्छंदविउचियाभरणचारुभूसणधरा' इति वनमाला| मयानि यानि आमेलमुकुटकुण्डलानि 'आमेल' इति आपीडशब्दस्य प्राकृतलक्षणवशात् आपीडः-शेखरकः, तथा खच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यत् चारु भूषणं-मण्डनं तद् धरन्तीति वनमालापीडमुकुटकुण्डलखच्छन्दविकुर्विताभरणचारुभूषणधराः, तथा सर्वतुकैः-सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिता-सुष्टु निर्वर्तिता तथा प्रलम्बते इति प्रलम्बा शोभते इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा वनमाला रचिता वक्षसि यैस्ते सर्वर्तुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसचित्रवनमालारचितवक्षसः, तथा काम-खेच्छया गमो येषां ते कामगमाः-खेच्छाचारिणः, क्वचित् 'कामकामा' इति पाठः, तत्र कामेन-खेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः, तथा काम-खेच्छया रूपं येषां ते कामरूपास्ते च ते देहाश्च कामरूपदेहास्तान् धरन्तीत्येवंशीलाः कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः, तथा नानाविधैर्वर्णे रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा चिल्ललगानि देशीवचनत्वात् देदीप्यमानानि वस्त्राणि निवसनं-परिधानं येषां ते नानाविधवर्णरागवरवस्त्रचित्रचिल्ललगनिवसनाः, तथा विविधैर्देशीनेपथ्यैहीतो वेषो यस्ते विविधदेशीनेपथ्यगृहीतवेषाः, तथा 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' इति कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटी केलि:-क्रीडा ॥९६॥ dain Educatio n al For Personal & Private Use Only nelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy