________________
प्रज्ञापनायाः मल
य० वृत्तौ.
॥ ९४ ॥
नाना ॥ ' तीसा चत्तालीसा' इत्यादि, उत्तरतः -- उत्तरस्यां दिशि असुरकुमाराणां भवनानि त्रिंशच्छतसहस्राणि, नागकुमाराणां चत्वारिंशत्, सुवर्णकुमाराणां चतुस्त्रिंशत्, वायुकुमाराणां षट्चत्वारिंशत्, द्वीपदिगुदधिविद्युत्स्तनिताभिकुमाराणां प्रत्येकं षट्त्रिंशत् भवनशतसहस्राणि । सम्प्रति सामानिकात्मरक्षकदेव संख्या संग्रहार्थमाह - 'चउसट्ठी सट्टी खलु' इत्यादि, दाक्षिणात्यस्यासुरकुमारेन्द्रस्य सामानिका देवाः चतुःषष्टिसहस्राणि, उत्तराहस्य पष्टिसहस्राणि, असुरवर्णानाम् - असुरकुमारेन्द्रवजनां शेषाणां सर्वेषामपि दाक्षिणात्यानामौत्तराहाणां च षट् पट् सहस्राणि प्रत्येकं 'सामाणिआ उ एए' इति एतेऽनन्तरोक्तसंख्याका देवाः सामानिका ज्ञातव्याः, आत्मरक्षकाः पुनः सर्वत्रापि सामानिक चतुर्गुणाः प्रतिपत्तव्याः ॥ इदानीं दाक्षिणात्यानामौत्तराहाणां चासुरकुमारादीनां यथाक्रममिन्द्रादीन् निर्दिशति – 'चमरे धरणे' इत्यादि, दाक्षिणात्यानामसुरकुमाराणामधिपतिश्चमरः, नागकुमाराणां धरणः, सुवर्णकुमाराणां वेणुदेवः, विद्युत्कुमाराणां हरिकान्तः, अग्निकुमाराणामग्निसिंहः, द्वीपकुमाराणां पूर्णः, उदधिकुमाराणां जलकान्तः, दिक्कुमाराणाममितः, वायुकुमाराणां वेलम्बः, स्तनितकुमाराणां घोषः । 'बलिभूयाणंदे' इत्यादि, उत्तरदिग्वर्तिनामसुर कुमाराणामिन्द्रो बलिः, नागकुमाराणां भूतानन्दः, सुवर्णकुमाराणां वेणुदालिः, विद्युत्कुमाराणां हरिस्सहः, अभिकुमाराणामग्निमाणवः, द्वीपकुमाराणां विशिष्टः, उदधिकुमाराणां जलप्रभः, दिक्कुमाराणाममितवाहनः, वायुकुमाराणां प्रभञ्जनः, स्तनितकुमाराणां महाघोषः ॥ सम्प्रति वर्ण संग्रहार्थमाह - 'काला असुरकुमारा'
Jain Education International
For Personal & Private Use Only
२ स्थानपदे असु
रादिस्थानं
सू. ४६
॥ ९४ ॥
www.jainelibrary.org