________________
तया दश दिश उद्योतयन्तः-प्रकाशयन्तः 'पभासेमाणा' शोभमानास्ते भवनवासिनो देवा 'ण' इति वाक्यालङ्कारे, तत्र स्वस्थाने 'साणं साणं' इति खेषां खेषामात्मीयात्मीयानामित्यर्थः ‘आहेवचं पोरेवच्चं' इत्यादि अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं सर्वेषामात्मीयानामग्रेसरत्वमिति भावः, तचाग्रेसरत्वं नायकत्वमन्तरेणापि खनायकनियुक्ततथाविधगृहचिन्त-18 कसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-खामित्वं-खमस्यास्तीति खामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कस्यचित् पोषकत्वमन्तरेणापि भवति यथा हरिणाधिपतेर्हरिणस्य तत आहभर्तृत्वं-पोषकत्वं, अत एव महत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद् वणिजः खदासवर्ग प्रति तत आह-'आणाईसरसेणावचं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं खखसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः, कारयन्तोऽन्यैर्नियुक्तकैः पुरुषः पालयन्तः खयमेव महता रवेणेति योगः, 'अहयत्ति' आख्यानकप्रतिबद्धानि यदिवा अहतानि-अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते-नाट्य-नृत्यं गीत-गानं यानि च वादितानि-तत्रीतलतालत्रुटितानि तत्र तत्री-बीणा तलौ-हस्ततली ताल:-कंसिका त्रुटितानि-बादित्राणि तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम घनसमानध्वनिों मृदङ्गः, तत एतेषां
SROBOS2020898920990
Jain Education
a
l
For Personal & Private Use Only
melibrary.org