SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ |सो-मुकुटो येषां ते पूर्णकलशाङ्कितोफेसाः, तथा सिंहहयवरगजा अङ्का अर्थाद् भूषणेषु येषां ते सिंहहयवरगजाङ्काः, तथा मकरवर्द्धमानके नियुक्ते-भूषणेषु नियोजिते चित्रे-आश्चर्यभूते चिह्न गते स्थिते येषां ते मकरवर्द्धमानकनियुक्तचित्रचिह्नगतास्ततः पूर्वपदैर्द्वन्द्वसमासः । पुनः सर्वे कथंभूताः ? इत्याह-'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीयरूपा इत्यर्थः, तथा 'महिड्डिया' इति महती ऋद्धिः-भवनपरिवारादिका येषां ते महर्द्धिकाः, तथा महती द्युतिः-शरीरगता आभरणगता च येषामिति महाद्युतयः, तथा महद् बलं-शारीरःप्राणो येषां ते महाबलाः, तथा महद् यशः-ख्यातिर्येषां ते महायशसः, तथा महाननुभाग:-सामर्थ्य शापानुग्रहविषयं येषां ते महानुभागाः, तथा 'महसक्खा' इति महान ईश-ईश्वर इत्याख्या-प्रसिद्धिर्येषां ते महेशाख्याः, अथवा ईशनमीशो भावे घनत्ययः ऐश्चर्यमित्यर्थः 'ईश ऐश्वर्य' इति वचनात् तमीशम्-ऐश्वर्यमात्मानं ख्यान्ति-अन्तर्भूतण्यर्थतया ख्यापयन्तिप्रथयन्ति इति ईशाख्याः महान्तश्च ते ईशाख्याश्च महेशाख्याः, क्वचिद् ‘महासोक्खा' इति पाठः तत्र महत् सौख्यं । प्रभूतसद्वद्योदयवशाद् येषां ते महासौख्याः, अन्ये पठन्ति-'महासक्खा' इति, तत्रायं शब्दसंस्कारो-महाश्चाक्षाः, इयं चात्र पूर्वसूरिप्रदर्शिता व्युत्पत्तिः-आशुगमनादश्वो-मनः अक्षाणि-इन्द्रियाणि स्वखविषयव्यापकत्वात् अश्वश्व अक्षाणि चेत्यश्वाक्षाणि महान्त्यश्वाक्षाणि येषां ते महाश्चाक्षाः, 'हारविराइयवच्छा' इति हारैर्विराजितं वक्षो येषां ते हारविराजितवक्षसः, 'कडगतुडियर्थभियभुया' इति कटकानि-कलाचिकाऽऽभरणानि त्रुटितानि-बाहुरक्षकास्तैः Jain Education anal For Personal & Private Use Only KaMainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy