SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 9 प्रज्ञापनायाःमलय. वृत्ती . २ स्थानपदे भवन| वासिस्थानं सू.४६ ॥८७॥ निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि, सप्रमाणि-खरूपतः प्रभावन्ति, समरीचीनि- बहिर्विनिर्गतकिरणजालानि, सोद्योतानि-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशनकराणि, 'प्रसादीयानि' प्रसादाय-मनःप्रसत्तये हितानि प्रसादीयानि-मनःप्रसत्तिकारीणीति भावः, तथा दर्शनीयानि-दर्शनयोग्यानि यानि पश्यतः चक्षुषी न श्रमं गच्छत इति तात्पर्यार्थः 'अभिरूपा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां तानि अभिरूपाणि अत्यन्तकमनीयानीत्यर्थः, अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवं रूपं येषां तानि प्रतिरूपाणि । 'एते भवणवासी' इत्यादि, एते अनन्तरोक्ता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटादिचित्रचिह्नधराश्च, तथाहि-असुरकुमारभवनवासिनश्च चूडामणिमुकुटरत्नाः, चूडामणि म मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः, सुवर्णकुमारा भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा भूषणनियुक्तवज्ररूपचिह्नधराः, वज्रं नाम शक्रस्यायुधं, अग्निकुमारा मुकुटनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूप(चिह्न) धराः, उदधिकुमारा भूषणनियुक्तहयवररूपचिह्नधराः दिकुमारा भूषणनियुक्तगजरूपचिह्नधराः, वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवरवर्द्धमानरूपचिह्नधराः, वर्द्धमानकं-शरायसंपुटं ।। अक्षरगमनिका त्वेवम्-भूषणेषु नागस्फटागरुडवज्राणि येषां ते भूषणनागस्फटागरुडवजाः, पूर्णकलशेनाङ्कित उप्फे-| ॥ ७ ॥ Jain Education international For Personal & Private Use Only ww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy