________________
पञ्चवर्णसुरभिमुक्तपुष्पपुओपचारकलितानि, 'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमतगन्धुयाभिराम' इति कालागुरुः प्रसिद्धःप्रवरः-प्रधानः कुन्दुरुक-चीडा तुरुष्कं-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुष्के च कालागुरुप्रवरकुन्दुरुक्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्भूत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपमघमघायमानगन्धोद्भूताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः तेच ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एण्वस्तीति सुगन्धवरगन्धगन्धिकानि, “अतोऽनेकखरात" इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानि-सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथा अप्सरोगणानां संघः-समुदायः तेन सम्यक्-रमणीयतया विकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानां त्रुटितानाम्-आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः संप्रणदितानि-सम्यक्-श्रोतृमनोहारितया प्रकर्षण सर्वकालं नदितानि-शब्दवन्ति, 'सर्वरत्नमयानि' सर्वात्मना-सामस्त्येन न त्वेकदेशेन रत्नमयानि समस्तरवमयानि वा, अच्छानि-आकाशस्फटिकवदतिखच्छानि, श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हानि' मसृणानि घुण्टितपटवत्, 'घट्ठा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, 'मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि खाभाविकरजोरहितत्वाद् निर्मलानि आगन्तुकमलाभावात् निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा
909975809002020
Jain Educatio
nal
For Personal & Private Use Only
Parlinelibrary.org