________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थानपदेभवनवासिस्थानंसू.४६
॥८६॥
तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वभिदधति-अडयालशब्दो देशीवचनत्वात् प्रशंसावाची, ततोऽय- मर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि, शिवानि-सदा मङ्ग- लोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वोपरक्षितानि सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउल्लोइयमहिया' इति लाइयं नाम-यद् भूमोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं, लाउल्लोइयाभ्यां महितानि-पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षण-गोशीनामकचन्दनेन सरसरक्तचन्दनेन च ददरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'चन्दनघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनघटैः-चन्दनकलशैः सुकृतानिसुष्ठकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि तथा 'आसत्तोसत्तविउलवट्टवग्घारियमलदामकलावा' इति आ-अवाङ अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्व सक्त उत्सक्तः उल्लोचतले उपरि संबद्ध इत्यर्थः विपुला-विस्तीर्णः वृत्तो-चतुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तान्यासक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलितानि
सु कृततोरणानि प्रतिद्वार
४/ अधोभूमौ सक्त आसतनागानि तथा 'आसत्तो
॥८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org