________________
गम्भीरा-अलब्धमध्यभागा खातपरिखा येषा भवनाना परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखानां चायं प्रतिविशेषः-परिखा उपरि विशाला अधः संकुचिता, खातं तु उभयत्रापि सममिति, 'पागारद्यालयकवाडतोरणपडिदुवारदेसभागा' इति, प्रतिभवनं प्राकारेषु-सालेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराहालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राहालकाः-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसंभवात् , तोरणानि प्रतोलीद्वारेषु प्रतिद्वाराणि-स्थूलद्वारापान्तरालवर्तीनि लघुद्वाराणि, तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यत्राणि-नानाप्रकाराणि शतन्यो-महायष्टयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि नन्ति मुशलानि-प्रतीतानि मुसण्ढ्यः-प्रहरणविशेषाः तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानि-पर्यो मशक्यानि, अयोध्यत्वादेव च 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीत्यर्थः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः समन्ततो निरन्तरं
परिवारिततया परेषामसहमानानां मनागपि प्रवेशासंभवात्, “अडयालकोटगरइया' इति अष्टचत्वारिंशभेदभिन्नवि४च्छित्तिकलिताः कोष्ठका-अपवरका रचिताः-खयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि,
सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंशभेदभिन्नविच्छित्तयः कृता वनमाला येषु
Education
or
For Personal & Private Use Only
wavigainelibrary.org