________________
नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्रापि तेषां शीतपरिणामत्वात् , तथा चाह-"नवरं छट्टसत्तमीसु णं काउअअगणिवन्नाभा न भवन्ति" सम्प्रति यथोक्तपृथिवीवाहल्यपरिमाणप्रतिपादिकां संग्रहणीगाथामाह-'आसीयं बत्तीसं' इत्यादि, आशीतं-अशीतिसहस्राधिकं शतसहस्रं रत्नप्रभाया बाहल्यं द्वात्रिंशं-द्वात्रिंशत्सहस्राधिकं शर्कराप्रभायाः 'अष्टाविंशं' अष्टाविंशतिसहस्राधिकं वालुकाप्रभायाः विंशतिसहस्राधिकं पङ्कप्रभायाः अष्टादशसहस्राधिकं धूमप्रभायाः षोडशसहस्राधिकं तमप्रभायाः अष्टोत्तरम्-अष्टसहस्राधिकं लक्षं 'हेटिमिया' सर्वाधस्तन्यास्तमस्तमःप्रभाया इति । संप्रति उपर्यधश्चैकैक योजनसहस्रं मुक्त्वा यावत्प्रमाणं नरकावासयोग्यं पृथिवीबाहल्यं तावत्संग्रहीतुकाम आह'अट्टत्तरं च' इत्यादिगाथाद्वयं, रत्नप्रभाया हि अशीतिसहस्राधिकं लक्षं बाहल्यपरिमाणं तस्योपरितनमेकं योजनसहस्रमेकं चाधो योजनसहस्रं वर्जयित्वा शेषं नरकावासाधारभूतं, अतो रत्नप्रभाया नरकावासयोग्यं बाहल्यपरिमाणमष्टसप्ततिसहस्राधिकं लक्षं भवति, एवं सर्वत्राप्युपयुज्य भावनीयं । साम्प्रतं नरकावाससंख्याप्रतिपादनाय संग्रहणीगाथामाह-'तीसा य' इत्यादि, गतार्था ॥
कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पञ्जत्तापजत्ताणं ठाणा प०?, गोयमा ! उड्डलोए तदेक्कदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु
JainEducetiorahli
For Personal & Private Use Only
B
anyo