________________
येभ्यस्त कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव गम्भीरलोमहर्षाः-गम्भीरः-अतीवोत्कटो लोमहर्षो-लोमोद्धर्षो भयवशाद् येभ्यस्ते गम्भीरलोमहर्षाः, किमुक्तं भवति?-एवं नाम कृष्णाः कृष्णावभासा यद् दर्शनमात्रेऽपि शेषनारकजन्तूनां भयसंपादनेन मात्रातिगं लोमहर्षमुत्पादयन्तीति, अत एव 'भीमाः' भयानकाः, भीमत्वादेव उत्रासनका:-उत्रास्यन्ते शेषनारकजन्तव एभिरित्युत्रासनाः उत्रासना एवोत्रासनकाः, किंबहुना ?'वर्णेन' वर्णमधिकृत्य परमकृष्णाः, यत ऊर्ध्वं न किमपि कृष्णमस्ति भयानकं वा, बहूत्कर्षप्राप्तकृष्णवर्णाः प्रज्ञप्ता मया शैषैश्च तीर्थकरैः हे श्रमण ! हे आयुष्मन् ! 'ते णं निचं भीया' इत्यादि, ते नैरयिकाः 'ण' इति वाक्यालङ्कारे 'नित्यं सर्वकालं क्षेत्रवभावजनितमहानिबिडान्धकारदर्शनतो भीताः 'नित्यं' सर्वकालं त्रस्ताः परमाधार्मिकपरस्परोदीरितदुःखसंपातभयादग्रेऽपि त्रास(स)मुपपन्नाः 'नित्यं' सर्वकालं परमाधार्मिकैः परस्परं वा त्रासिताः-त्रासं ग्राहिताः तथा 'नित्यं' सर्वकालं यथायोगं परमदुःसहशीतोष्णवेदनानुभवतः परमाधार्मिकपरस्परोदीरितदुःखानुभवतश्चोद्विग्नाः-तद्गतवासपराङ्मुखचित्ताः एवं 'नित्यं सर्वकालं परममशुभं-एकान्तेनाशुभं संबद्धम्-अनुबद्धं न तु जातुचिदपि मनागप्यपान्तराले व्यवच्छिन्नसंतानं 'नरकभयं नरकदुःखं 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना 'विहरन्ति' अवतिष्ठन्ते । ___ कहि णं भंते ! रयणप्पभापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा प०१, कहि णं भंते ! रयणप्पभापुढवीनेरइआ परिव
Jain Educa
BX
For Personal & Private Use Only
Ninelibrary.org