SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ रशीतिर्नरकावासशतसहस्राणि भवन्ति, तथाहि-रत्नप्रभायां त्रिंशन्नरकावासशतसहस्राणि भवन्ति, शर्कराप्रभायां पञ्चविंशतिः शतसहस्राणि, वालुकाप्रभायां पञ्चदश लक्षाः, पङ्कप्रभायां दश लक्षाः, धूमप्रभायां त्रीणि लक्षाः, तमःप्रभायामेकं शतसहस्रं पञ्चोनं, तमस्तमःप्रभायां पञ्चेति, सर्वसंख्यया चतुरशीतिर्लक्षा नरकावासानामित्याख्यातं मया शेषैस्तीर्थकृभिः (श्च), 'ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिर्लक्षप्रमाणाः सर्वेऽपि प्रत्येकमन्तःमध्यभागे (वृत्ता) वृत्ताकारा बहिर्भागे चतुरस्राः-चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते,18 सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टा वृत्तव्यस्रचतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधो-भूमीतले क्षुरप्रस्येव-प्रहरणविशेषस्य यत्संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः, तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, 'निचंधयारतमसा' इति तमसा नित्यान्धकाराः-उद्योताभावतो यत्तमः तदिह तम उच्यते तेन तमसा नित्यं-सर्वकालमन्धकाराः, त(अ)त्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं-तमसा नित्यान्धकाराः, तमश्च तत्र सदा|ऽवस्थितं, उद्योतकारिणामसंभवात् , तथा चाह-ववगयगहचंदसूरनक्खत्तजोइसियपहा' व्यपगतः-परिभ्रष्टो dain Educati For Personal & Private Use Only Ajainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy