SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 290000000000000000000 एवं बादरवायुकायिकवनस्पतिकायिकसूत्राण्यपि प्रत्येकं त्रीणि त्रीणि भावनीयानि, नवर बादरपर्याप्तवायुकायिकसूत्रे भवनच्छिद्राणि-भवनानामवकाशान्तराणि भवननिष्कुटा-गवाक्षादिकल्पाः केचन भवनप्रदेशाः नरकच्छिद्राणि नरकनिष्कुटा-गवाक्षादिकल्पा नरकावासप्रदेशाः, एवं विमानच्छिद्राणि विमाननिष्कुटाश्च प्रतिपत्तव्याः, 'उववाएणं लोगस्स असंखेजेसु भागेसु' इत्यादि, वायवो हि पर्याप्ता अतिबहवः, यतो यत्र सुषिरं तत्र वायुः, सुषिरबहुलश्च लोक इति त्रिष्वप्युपपातादिषु लोकस्यासंख्येयेषु भागेष्वित्युक्तं । अपर्याप्सबादरवायुकायिकसूत्रे 'उववाएणं समुग्घाएण य सबलोए' इति, इह देवनारकवर्जेभ्यः शेषकायेभ्यः सर्वेभ्यो बादरापर्याप्तवायुकायेषु समुत्पधन्ते, बादरापर्याप्ताश्चापान्तरालगतावपि लभ्यन्ते, बहूनि च स्वस्थानानि बादरपर्याप्तापर्याप्तवायुकायिकानां, ततो व्यवहारनयमतेनाप्युपपातमधिकृत्य सकललोकव्यापिता घटते इति न काचित् क्षतिः, समुद्घातेन च सकललोकव्यापिता सुप्रतीतैव, सर्वेषु सूक्ष्मेषु सर्वत्र च लोके तेषां समुत्पादसंभवात् । बादरपर्याप्तवनस्पतिकायिकसूत्रे 'उववाएणं सबलोए' इह पर्याप्तबादरवनस्पतिकायिकानां खस्थानं घनोदध्यादि, तत्र बादरनिगोदानां शैवालादीनां संभवात् , सूक्ष्मनिगोदानां भवस्थितिरन्तर्मुहूर्त ततस्ते बादरनिगोदेषु पर्याप्तेषु समुत्पद्यमाना बादरनिगोदपर्याप्तायुरनुभवन्तः सुविशुद्धऋजुसूत्रनयदर्शनाभ्युपगमेन लब्धबादरपर्यासवनस्पतिकायिकव्यपदेशा उषपातेन सकलकालं सर्वलोकं व्यामुवन्ति, तत उक्तम्-'उपपातेन सर्वलोके' इति । 'समुग्घाएणं सबलोए' इति, यदा बादरनिगोदाः। 0 dan Educati o nal For Personal & Private Use Only l ainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy