________________
प्रज्ञापनाया: मलय. वृत्ती.
२ स्थान| पदे पृ
व्यप्तेजः स्थानानि
स्थिताः ये च खस्थानानुगते तिर्यग्लोके प्रविष्टास्ते एव बादरापर्याप्ततेजःकायिका व्यपदिश्यन्ते न शेषाः कपाटापान्तरालव्यवस्थिताः, विषमस्थानवर्तित्वात् , तेन येऽद्यापि कपाटद्वयं न प्रविशन्ति नापि तिर्यग्लोकं ते किल पूर्व|भवावस्था एवेति न गण्यन्ते, उक्तं च-"पर्णयाललक्खपिहुला दुन्नि कवाडा य छहिसिं पुट्ठा । लोगन्ते तेसितो जे तेऊ ते उ धिप्पन्ति ॥१॥" तत उक्तं-'उववाएणं दोसु उड्डकवाडेसु तिरियलोयतढे य' इति, स्थापनातदेवमिदं सूत्रं व्यवहारनयप्रदर्शनेन व्याख्यातं, तथासंप्रदायात्, युक्तं चैतत् "विचित्रा सूत्राणां गतिः". इति वचनादिति । 'समुग्घाएणं सबलोए' इति, इह द्वयोः कपाटयोर्यथोक्तखरूपयोर्यान्यपान्तरालानि तेषुये सूक्ष्मपृथिवीकायिकादयो बादरापर्याप्ततेजःकायिकेषुत्पद्यमाना मारणान्तिकसमुद्घातेन समवहताः ते किल |विष्कम्भबाहल्याभ्यां शरीरप्रमाणमात्रानायामत उत्कर्षतो लोकान्तं यावदात्मप्रदेशान् विक्षिपन्ति, तथा चावगाहनासंस्थानपदे वक्ष्यते-"पुढवीकाइअस्स णं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा प०१, गोयमा ! सरीरपमाणमेतविक्खंभवाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइभागे उक्कोसेणं लोगंतो" इति, ततस्ते सूक्ष्मपृथिवीकायिकादय उत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डा अपान्तरालगतौ वर्तमाना बादरापर्याप्ततेजःकायिकायुर्वेदनाद् लब्धबादरापर्याप्ततेजःकायिकव्यपदेशाः समुद्घातगता एवापान्तराल
१ पञ्चचत्वारिंशल्लक्षपृथू द्वौ कपाटौ च षट्सु दिक्षु स्पृष्टौ । लोकान्तान् तयोरन्तये तेजःकायिकास्ते तु गृह्यन्ते ॥१॥
॥७६॥
Jain Education Ternational
For Personal & Private Use Only
www.jainelibrary.org