________________
य' इति, तटुं-स्थालं तिर्यग्लोके तदृमिव तिर्यग्लोकतट्ट तस्मिंश्च खयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनश-18 तबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः, उपपातेन बादरतेजःकायिकानामपर्याप्तानां स्थानानि प्रज्ञप्तानि, केचित् 'तिरियलोयतट्टे य' इत्येवं व्याचक्षते-तयोः-कपाटयोः स्थितः तत्स्थः तिर्यग्लोकश्चासौ तत्स्थः, तयोरूर्द्धकपाटयोरन्तर्वतितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति ?-द्वयोरूर्द्धकपाटयोर्यथोक्तखरूपयोस्तिर्यग्लोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोकव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाटग्रहणेनैव सिद्धत्वात् , तत्त्वं पुनः केवलिना विशिष्टश्रुतविदा वा गम्यं, इयमत्र भावना-इह त्रिविधा बादरपर्याप्ततेजःकायिकाः, तद्यथाएकमविका बद्धायुषोऽभिमुखनामगोत्राश्च, तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं बादरापर्याप्ततेजाकायिकत्वेनोत्पत्स्यन्ते ते एकमविकाः, ये तु पूर्वभवत्रिभागादिसमयबद्धबादरापर्याप्सतेजःकायिकायुषस्ते बद्धायुषः, ये पुनबर्बादरापर्याप्ततेजःकायिकायुर्नामगोत्राणि पूर्वभवमोचनानन्तरं साक्षाद् वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकमविका बद्धायुषश्च द्रव्यतो बादरापर्याप्ततेजःकायिका न भावतः, तदाऽऽयुनामगोत्रवेदनाभावात् , ततो न तैरिहाधिकारः, किन्तु अभिमुखनामगोत्रैः, तेषामेवोपपातस्य स्वस्थानप्रात्याभिमुख्यलक्षणस्य लभ्यमानत्वात् , तत्र यद्यपि ऋजुसूत्रनयदर्शनेन बादरापर्याप्ततेजःकायिकायुर्नामगोत्रवेदनाद् यथोक्तकपाटद्वयतिर्यग्लोकवायव्यवस्थिता अपि | SI बादरापर्याप्ततेजःकायिकव्यपदेशं लभन्ते तथाप्यत्र व्यवहारनयदर्शनाभ्युपगमाद् ये खस्थानसमश्रेणिकपाटद्वयव्यव
Jain Education N
onal
For Personal & Private Use Only
Lainelibrary.org