________________
प्रज्ञापचायाः मलय.वृत्ती.
पदे पृ
॥७४॥
केषांचिद् वक्रगत्या । तत्र ऋजुगतिः सुप्रतीता, वक्रस्थापना चैवम् , अत्र यदैव प्रथमं वक्रमेके संहरन्ति तदैवापरे | २ स्थानतद्वक्रदेशमापूरयन्ति, एवं द्वितीयवक्रदेशसंहरणेऽपि वक्रोत्पत्तावपि प्रवाहतो निरन्तरमापूरणं भावनीयम् । 'सहाणेणं लोगस्स असंखेजइभागे' इति यथा पर्याप्तानां भावितं तथाऽपर्याप्तानामपि भावनीयम् , तन्निश्रया तेषामु
थव्यप्तेजः त्पादभावात् । सूक्ष्मपृथिवीकायिकपर्याप्तापर्याप्तसूत्रे 'जे पजत्ता अपजत्ता ते सबे एगविहा अविसेसा अणाणत्ता ।
स्थानानि सबलोयपरियावन्नगा' इति सूक्ष्मपृथिवीकायिका ये पर्याप्ता ये चापर्याप्ताः ते सर्वेप्येकविधा:-एकप्रकाराः, प्राकृतं स्वस्थानादिविचारमधिकृत्य भेदाभावात् , अविशेषा-विशेषरहिताः, यथा पर्याप्तास्तथेतरेऽपीति भावः 'अनानात्वा' नानात्ववर्जिताः, देशभेदेनालक्षितनानात्वा इत्यर्थः, किमुक्तं भवति?-एष्वाधारभूतेष्वाकाशप्रदेशेषु एके तेष्वेव इतरेऽपीति, सर्वलोकपर्यापन्नाः सर्वलोकव्यापिनः, उपपातसमुद्घातस्वस्थानः प्रज्ञप्ताः मया अन्यैश्च ऋषभादिभिस्तीर्थकृभिः, अनेन आगमस्य कथंचिद् नित्यत्वमावेदितम्, हे श्रमण ! हे आयुष्मन् ! आमन्त्रणमिदं भगवायुक्तं गौतमस्य । एवमप्कायिकसूत्राण्यपि बादरसूक्ष्मविषयाणि । नवरं-पर्याप्तबादराप्कायिकसूत्रे 'सत्तसु घणोदहिवलएसुत्ति' सप्त घनोदधिवलयानि स्वखपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि । 'अहोलोए पायालेसुत्ति' पातालकल
॥७४॥ शेषु वलयामुखप्रभृतिषु, तेष्वपि द्वितीये त्रिभागे देशतः, तृतीये त्रिभागे सर्वात्मना जलभावात् । भवनेषु कल्पेषु विमानेषु च जलं वाप्यादिषु, विमानादीनि चात्र कल्पगतानि वेदितव्यानि, अवेयकादिषु वापीनामसंभवतो जला
jain Educatio
n
al
For Personal & Private Use Only
(OLinelibrary.org