________________
संभवात् । अवटाः कूपाः। तडागानि प्रतीतानि । नद्यो गङ्गासिन्धुप्रभृतयःहुदाः पद्महदादयः। वाप्यश्चतुरस्राकाराः। ता एव वृत्ताकाराः पुष्करिण्यः, यदिवा पुष्कराणि पद्मानि विद्यन्ते यासु ताः पुष्करिण्यः । दीपिका ऋजुलघुनद्यः । ता एव वक्रा गुंजालिका । बहूनि केवलकेवलानि पुष्पावकीर्णानि सरांसीत्युच्यन्ते । तथा बहूनि सरांसि एकपतया व्यवस्थितानि सरपतिस्ता बयः सरःपतयः । तथा येषु सरःसु पतया व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरःसर पङ्क्तिः, ता बह्वयः सरःसरःपतयः । बिलानीव बिलानि खभावनिष्पन्ना जगत्यादिषु कृपिकास्तेषां पङ्कयो बिलपङ्ग्यः । उज्झरा गिरिष्वम्भसा प्रस्रवाः । ते एव सदावस्थायिनो निझराः। छिल्लराणि-अखाताः स्तोकजलाश्रयभूता भूप्रदेशा गिरिप्रदेशा वा । पल्वलानि अखातानि सरांसि । वप्राः केदाराः। किंबहुना ?, सर्वेष्वेव जलाशयेषु, एतदेव व्याचष्टे-जलस्थानेषु । शेषभावना प्राग्वत् । अधुना बादरपर्याप्ततेजाकायिकस्थानानि पृच्छति-'कहि णं भंते ! बादरतेउकाइयाणं' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गोयमा!' इत्यादि, गौतम ! 'खस्थानेन' खस्थानमङ्गीकृत्य अन्तर्मनुष्यक्षेत्रे-मनुष्यक्षेत्रमध्ये इत्यर्थः, अर्द्ध तृतीयं येषां ते अद्धतृतीयाः तत्रान्तर्मनुष्यक्षेत्रस्यार्द्ध तृतीयं समुद्राणां न विद्यते इतीदं विशेषणं द्वीपानां द्रष्टव्यं, द्वीपाश्च समुद्रौ च द्वीपसमुद्रास्तेषु '
निर्व्याघातेन' व्याघातस्याभावो निर्व्याघातं तेन निर्व्याघातेन "वा तृतीयायाः" इति पाक्षिकोऽमादेशाभावः, व्याघाताभावेनेत्यर्थः, “पञ्चदशसु कर्मभूमिषु' पञ्चभरतपञ्चरावतपञ्चमहाविदेहरूपासु व्याघातं प्रतीत्य' व्याघाते
in Educa
For Personal & Private Use Only
W
elbrary.org