SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ लोकस्यासंख्येयभागे, इयमत्र भावना-यदा बादरपर्याप्ताः पृथ्वीकायिकाः सोपक्रमायुषो निरुपक्रमायुषो या त्रिभा. गाद्यवशेषायुषः पारभविकमायुर्बद्धा मारणान्तिकसमुद्घातेन समवहन्यन्ते तदा ते विक्षिप्तात्मप्रदेशदण्डा अपि । लोकस्यासंख्येयतमे एव भागे वर्तन्ते, स्तोकत्वाद् , बादरपृथ्वीकायिकपर्याप्तायुश्चाद्याप्यक्षीणमिति पर्याप्तबादरपृथ्वीकायिका अपि लभ्यन्ते । इह पूर्व पृथ्व्यादिषु खस्थानमात्रमुक्तम् , इदानी खस्थानेनापि कियति लोकस्य भागे वतन्ते इति निरूपयति-सटाणणं लोगस्स असंखिजे भागे' इति, खस्थानं रत्नप्रभादि, तच्च समुदितमपि लोकस्यासंख्येयभागवर्ति, तथाहि-रत्नप्रभा अशीतियोजनसहस्राधिकलक्षप्रमाणपिण्डभावा, एवं शेषा अपि पृथ्व्यः खखघनभावेन वक्तव्याः पातालकलशा अपि योजनलक्षावगाहा नरकावासाः त्रिसहस्रयोजनोच्छ्याः विमानान्यपि द्वात्रिंशद्योजनशतबाहल्यानि ततः सर्वेषामपि परिमितभावात् समुदितानामप्यसंख्येयभागवर्तितैवेति । बादरापर्याप्तपृथ्वीकायिकसूत्रे 'उववाएणं सवलोए समुग्घाएणं सवलोए' इति, इहापर्याप्सा बादरपृथ्वीकायिका अपान्तरालगतावपि खस्थानेऽपि चापर्याप्तवादरपृथ्वीकायिकायुर्विशिष्टविपाकतो वेदयन्ते तथा देवनैरयिकवर्जेभ्यः शेषसर्वकायेभ्यश्चोत्पद्यन्ते, उद्वत्ता अपि च देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु गच्छन्ति, ततोऽपान्तरालगतावपि वर्तमाना अमी गृह्यन्ते, अतिप्रभूताश्च खभावतोऽपी(तोऽमी इत्युपपातेन समुद्घातेन (च) सर्वलोके वर्तन्ते। अन्ये त्वभिदधति-खभावत एवामी बहव इति उपपातेन समुद्घातेन च सर्वलोकव्यापिनः, तत्रोपपातः केषांचिदू ऋजुगत्या dain Education thr onal For Personal & Private Use Only wwjainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy