SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामन्त्रणध्वनिः हे गौतमगोत्रेति भावार्थः। 'सट्ठाणेणं' इति स्वस्थानं यत्रासते बादरपृथ्वीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्वस्थानमिति भावः, स्वस्थानग्रहणमुपपातसमुद्घातस्थाननिवृत्त्यर्थ, तेन खस्थानेन खस्थानमङ्गीकृत्येति भावः। अष्टासु पृथ्वीषु सर्वत्र वादरपृथ्वीकायिकानां पर्याप्तानां स्थानानीति योगः, ता एव अष्टौ पृथ्वी मग्राहमाह-'तंजहा' इत्यादि, रत्नप्रभायां यावदष्टम्यामीपत्प्राग्भारायाम् , तथाऽधोलोके पातालेषु पातालकलशेषु-वलयामुखप्रभृतिषु भवनेषु-भवनपतिनिकायावासरूपेषु, भवनप्रस्तटेषु-भवनभूमिकारूपेषु, इह भवनग्रहणेन भवनानामेव केवलानां Kग्रहणं, भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि । तथा नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिका सु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेषु-नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊर्द्धलोके कल्पेषु-सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषु-अवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवलिकाप्रविष्टेषु वयकादिविमानेषु, विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालभाविनामपि यथासंभवभाविनां बादरपर्याप्तपृथ्वीकायिकानां स्थानपरिग्रहार्थ, तथा तिर्यग्लोके टङ्केषु-छिन्नटङ्केषु कूटेषु-सिद्धायतनकूटप्रभृतिषु शैलेषु-शिखरहीनपर्वतेषु शिखरिषु-शिखरयुक्तेषु पर्वतेषु प्राग्भारेषु-ईषत्कुलेषु विजयेषु-कच्छादिषु म.१३ dain Educatio n al For Personal & Private Use Only Mainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy