________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थान| पदे पृव्यक्षेजा स्थानानि
॥७२॥
eseeeeeeeeeeeeeeeeee
पज्जत्तगाण य अपजत्तगाण य ठाणा प०१, गोयमा! सुहुमतेउकाइआ जे पजत्तगा जे अपञ्जत्तगा ते सत्वे एगविहा अविसेसा अणाणत्ता सबलोयपरियावन्नगा प० समणाउसो!। (सू०३९) 'कहिंति कस्मिन् , अंशब्दो वाक्यालङ्कारे, भदन्तेति परमगुर्वा मन्त्रणे, बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि-खस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमखामिना प्रश्ने कृते भगवानाह वर्धमानखामी-'गो|यमा ! सट्ठाणेणं' इत्यादि, ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्ववित् सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एव ततः किमर्थ पृच्छति ?, न हि चतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चित्प्रज्ञापनीयमविदितमस्ति, यत उक्तम्-"संखाईए विभवे साहइ जं वा परो उ पुच्छेज्जा । न य णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" सत्यमेतत् , केवलं जाननेव गौतमखामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थ पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपं सूत्रमतो भगवानार्यश्यामोऽपि इत्थमेव सूत्रं रचयति, अथवा संभवति तस्यापि गणभृतो गौतमखामिनोऽनाभोगः, छद्मस्थत्वात्, उक्तं च-"न हि नामानाभोगश्छमस्थस्यह |कस्यचिद् नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥" ततो जातसंशयः सन् पृच्छतीति न कश्चिद्
१ संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत् । नैवैनं अनतिशायी विजानात्येष छद्मस्थः ॥ १॥
|॥७२॥
dain Education
Lional
For Personal & Private Use Only
Magainelibrary.org