________________
इति पाठः, यदिवा 'वानमन्तराः' इति पदसंस्कारः, तत्रेयं व्युत्पत्तिः - वनानामन्तराणि वनान्तराणि तेषु भवाः वानमन्तराः, पृषोदरादित्वाद् उभयपदान्तरालवर्तिमकारागमः, तथा द्योतयन्ति — प्रकाशयन्ति जगदिति ज्योतींषि - विमानानि, औणादिकी शब्दव्युत्पत्तिः, तेषु भवा ज्योतिष्काः “अध्यात्मादिभ्यः" इति इकणू, तत “इवर्णोवर्णदोसिसः" इति इकण आदेरिकारस्य लोपः, अनभिधानाच वृद्ध्यभावः, यदिवा द्योतयन्ति - शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो - देवाः सूर्यादयः, तथाहि - सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिह्नं चन्द्रस्य चन्द्राकारं नक्षत्रस्य नक्षत्राकारं ग्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च तत्वार्थ भाष्यकृत् - " द्योतयन्तीति ज्योतींषि — विमानानि तेषु भवा ज्योतिष्काः, यदिवा ज्योतिषो - देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगूहिभिः प्रभामण्डलैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्डलैर्यथाखं चिहैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति । तथा विविधं मान्यन्ते - उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु भवा वैमानिकाः ॥ सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह - 'से किं तं भवणवासी' इत्यादि, असुराश्च ते कुमाराश्च असुरकुमाराः, एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?, उच्यते, कुमारवच्चेष्टनात्, तथाहि — कुमारा इवैते सुकुमारा मृदुमधुरललितगतयः शृङ्गाराभिप्रायकृत विशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवच्चोद्धत रूपवेष भाषाभरणप्रहरणावरणयानवाहनाः कुमारवञ्चोल्ब
Jain Education national
For Personal & Private Use Only
ainelibrary.org