________________
.प्रज्ञापनायाः मलय. वृत्तौ .
अणुत्तरोववाइआ, सेत्तं कप्पाईया, सेत्तं वेमाणिआ, सेत्तं देवा, सेत्तं पंचिंदिया, सेत्तं संसारसमावनजीवपन्नवणा, से तं
१प्रज्ञापजीवपन्नवणा, सेत्तं पन्नवणा ।। (मू० ३८) पनवणाए भगवईए पढमपयं सम्मत्तं ।
नापदे दे__ 'से किं तं' इत्यादि, अथ के ते देवाः १, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्यो-18 वप्रज्ञाप|तिष्का वैमानिकाः, तत्र भवनेषु वसन्तीत्येवंशीला भवनवासिनः, एतद् बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते
नासू.३० हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेसु कदाचिद् भवनेषु, अथ भवनानामावासानां च कः प्रतिविशेषः१, उच्यते, भवनानि बहिवृत्तान्यन्तः समचतुरस्राणि अधः पुष्करकर्णिकासंस्थानानि, आवासाः कायमानस्थानीया महामण्डपा विविधमणिरत्नप्रदीपप्रभासितसकलदिकचक्रवाला इति । अन्तरं नामावकाशः, तचेहाश्रयरूपं द्रष्टव्यं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः। [ तत्र भवनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपर्यधश्च प्रत्येकं योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे भवन्ति, नगराण्यपि तिर्यग्लोके, तत्र तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्थान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, आवासाः त्रिष्वपि लोकेषु, त ज़िलोके पण्डकवनादाविति ] अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः ॥६९॥ | तथाहि-मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद् व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, यदिवा विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच सूत्रे 'वाणमन्तरा'
Jain Educator LINE
For Personal & Private Use Only