________________
विद्यते येन तदाश्रित्यापवादसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव खं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते, उक्तं च-"कारणमालंबणमो तं पुण नाणाइ सुपरिसुद्धं । एअस्स तं न विजइ उचियं तवसाहणो पायं ॥ १॥ सत्वत्थ निरवयक्खो आढत्तं चिय दढं समाणतो । वट्टइ एस महप्पा किलिट्टकम्मक्खयनिमित्तं ॥२॥" १७ । निष्प्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरः अक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयं पदं सेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया। पाणन्तिएविय महावसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयातीओ उ होइ एसत्ति । अहवा सुहभावाओ बहुगं एवं चिय इमस्स ॥ २॥" १८ । भिक्षाद्वारे-भिक्षा विहारक्रमश्च तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्याल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाऽप्येषोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधातीति, उक्तं च-"तइयाए पोरसीए भिक्खाकालो विहारकालो उ।सेसासु उस्सग्गो पायं अप्पा य निद्दत्ति ॥१॥ जंघाबलंमि खीणे अविहरमाणोऽवि न परमावजे । तत्थेव अहाकप्पं कुणइ उ जोगं महाभागो ॥२॥" १९। (बन्धेऽष्ट सप्त वा २०) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमात्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते
099999999999
Jain Education
For Personal & Private Use Only
X
anbrary.org