SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ elese १ प्रज्ञापनापदे मनुष्यप्रज्ञापना. सू. ३८ प्रज्ञापना- शायदा पूर्वप्रतिपन्नः कल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं या: मल- वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च-“पंडिवजमाण भयणाएँ होज एकोवि २० वृत्ती. ऊणपक्खेवे । पुवपडिवन्नयावि य भइआ एको पुहुत्तं वा ॥१॥" १२। अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः, तद्यथा॥६ ॥ द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चय॑न्ते, तत्र परिहारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उक्तं च-“दवाईअअभिग्गह विचित्तरूवा न होन्ति पुण केइ । एअस्स जीअकप्पो कप्पोच्चियऽभिग्गहो जेणं ॥१॥ एयंमि गोयराई नियया नियमेण निरववादा य । तप्पालणं चिय परं एअस्स विसुद्धिठाणं तु ॥२॥" १३ । प्रव्रज्याद्वारे-नासावन्यं प्रत्राजयति, कल्पस्थितिरेषेतिकृत्वा, आह च-"पवावेइ न एसो अन्नं कप्पटिइत्ति काउणं" इति, उपदेशं पुनर्यथाशक्ति प्रयच्छति १४ । मुण्डापनद्वारेऽपि नासावन्यं मुण्डयति, अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थं पृथगूद्वारं ?, तदयुक्तं, प्रत्रज्याद्वारे नियमतो मुण्डनस्यासंभवात् , अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगात्, अतः पृथगिदं द्वारमिति १५।प्रायश्चित्तविधिद्वारे-मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानः, ततस्तदूभङ्गे गुरुतरो दोष इति १६। कारणद्वारे-तथा कारणं नामालम्बनं तत्पुनः सुपरिशुद्धं ज्ञानादिकं तचास्य न ReeserReseeeeeeeeeeee forecockiseenetweeeeeeee ॥६७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy