________________
प्र.१२.
विवक्षितकल्पोचितसामाचार्ययोगात् ९ । लेश्याद्वारे - तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहार - विशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद् भवति, तत्रापीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो (ऽपि न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते, अथ प्रथमत एव कस्मात् प्रवर्तते ?, उच्यते, कर्मवशात् उक्तं च- "लेसासु विसुद्धायुं पडिवजह तीसु न उण सेसासु । पुचपडिवन्नओ पुण होज्जा सच्चासुवि कहंचि ॥ १ ॥ णऽचंतसंकिलिट्ठासु थोवं कालं स हंदि इयरासु । चित्ता कम्माण गई तहा विवरीयं (वि विरियं) फलं देइ ॥ २ ॥” १० । ध्यानद्वारे — धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च" झाणंमिवि धम्मेणं पडिवज्जइ सो पवमाणेणं । इयरेसुवि झाणेसुं पुवपवन्नो न पडिसिद्धो ॥ १ ॥ एवं च झाणजोगे उद्दामे तिवकम्मपरिणामा । रोद्दऽसुवि भावो इमस्स पायं निरणुबन्धो ॥२॥” ११ | गणनाद्वारे - जघन्यतः यो गणाः प्रतिपद्यन्ते, उत्कर्षतस्तु शतसंख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कृष्टतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च - " गणओ तिन्नेव गणा जहन्न पडिवत्ति सहस उक्कोसा । उक्कोस जहन्नेणं सयसोचिय पुवपडिवन्ना ॥ १ ॥ सत्तावीस जहन्ना सहस्समुक्कोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन्न जहन्नउक्कोसा ॥ २ ॥ अन्यच -
Jatonal
For Personal & Private Use Only
jainelibrary.org