________________
प्रज्ञापनाया: मलय.वृत्ती.
१प्रज्ञापनापदे ममनुष्याय प्रज्ञापना.
यावत्कथिकाः, उक्तं च-"इत्तरिय थेरकप्पे जिणकप्पे आवकहियत्ति" अत्र स्थविरकल्पग्रहणमुपलक्षणं, खकल्पे चेति द्रष्टव्यं, तत्रेत्वराणां कल्पप्रभावाद् देवमनुष्यतैर्यग्योनिकृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषयाश्च वेदना न प्रादुष्पन्ति, यावत्कथिकानां संभवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः संभवन्तीति, उक्तं च-"इत्तरियाणुवसग्गा आतंका वेयणा य न हवन्ति । आवकहियाण भइआ०" इति । तथा सूक्ष्मो लोभांशावशेषः संपरायः कषायोदयो यत्र तत् सूक्ष्मसंपरायं, तच द्विधाविशुध्यमानकं संक्लिश्यमानकं च, तत्र विशुध्यमानकं क्षपकश्रेणिमुपशमश्रेणिं वा समारोहतः, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य । 'अथाख्यात'मिति अथशब्दो यथार्थे आइ अभिविधौ याथातथ्येनाभिविधिना वा यत्ख्यातं-कथितं अकषायं चारित्रमिति तदथाख्यातं, उक्तं च-"अहसदो(उ) जहत्थे आङोऽभिविहीऍ कहियमक्खायं । चरणमकसायमुइयं तमहक्खायं जहक्खायं ॥१॥" 'यथाख्यात'मिति द्वितीयं नाम, तस्यायमन्वर्थःयथा सर्वस्मिन् लोके ख्यातं-प्रसिद्धं अकषायं भवति चारित्रमिति तथैव यद् तद् यथाख्यातं, तच द्विधा-छामस्थिकं कैवलिकं च, तत्र छानस्थिकमुपशान्तमोगुणस्थानके क्षीणमोहगुणस्थानके वा कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं च । 'सेत्तं' इत्यादि उपसंहारकदम्बसूत्रं सुगम ॥ तदेवमुक्ता मनुष्याः, सम्प्रति देवप्रतिपादनार्थमाह
In६८॥
Jain Education
Lonal
For Personal & Private Use Only
Magainelibrary.org