________________
तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमाने एव सति भवति, न तच्छेदे नानुत्पत्त्यां वा तदभावे जातिस्मरणादिना, उक्तं च - "तित्थेति नियमतोचिय होइ स तित्थंमि न उण तदभावे । विगएऽणुप्पन्ने वा जाइसरणाइएहिंतो ॥१॥ ४” पर्यायद्वारे – पर्यायो द्विधा - गृहस्थ पर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा - जघन्यत उत्कृष्टतश्च तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद् वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि च उत्कर्षतो देशोनपूर्व कोटिप्रमाणौ, उक्तं च – “ऐयस्स एस नेओ गिहिपजाओ जहन्निगुणतीसा । जइपज्जाओ वीसा दोसुवि उक्कोस देसूणा ॥१॥ ५॥ " आगमद्वारे - अपूर्वमागमं स नाधीते, यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह च - “अँप्पुवं नाहिजइ आगममेसो पहुच तं कप्पं । जमुचियपगहिअजोगाराहणओ चेव कयकिचो ॥ १ ॥ पुचाहीयं तु तयं पायमणुसरह निचमेवेस । एगग्गमणो सम्मं विस्सोयसिगाइखयहेऊ ॥ २ ॥ ६ |” वेदद्वारे – प्रवृत्तिकाले वेदतः पुरुष
१ तीर्थमिति नियमत एव भवति स तीर्थे न पुनस्तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिभिः ॥ १ ॥ २ एतस्यैष ज्ञातव्यो गृहिपर्यायो जघन्यत एकोनत्रिंशत् । यतिपर्यायो विंशतिः द्वयोरप्युत्कर्षतो देशोना ( पूर्वकोटी ) ॥ १ ॥ ३ अपूर्वं नाधीते आगममेष प्रतीत्य तं -कल्पम् । यदुचितप्रगृहीतयोगाराधनतश्चैव कृतकृत्यः ॥ १ ॥ पूर्वाधीतं तु तत् प्रायोऽनुस्मरति नित्यमेवैषः । एकाग्रमनाः सम्यक् विश्रोतसिकादिक्षयहेतोः ॥ २ ॥
Jain Education Wtional
For Personal & Private Use Only
(@jainelibrary.org