________________
न्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ विंशतिद्वाराणि, तद्यथा-१क्षेत्रद्वारं २ कालद्वारं ३ चारित्रद्वारं ४ तीर्थद्वारं ५ पर्यायद्वारं ६ आगमद्वारं ७ वेदद्वारं ८ कल्पद्वारं ९ लिङ्गद्वारं १० लेश्याद्वारं ११ ध्यानद्वारं १२ गणद्वारं १३ अभिग्रहद्वारं १४ प्रव्रज्याद्वारं १५ मुण्डापनद्वारं १६ प्रायश्चित्तविधिद्वारं १७ कारणद्वारं १८ निष्प्रतिकर्मताद्वारं १९ भिक्षाद्वारं २० बन्धद्वारम् । तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सदभावतश्च, यत्र क्षेत्रे जातस्तत्र जन्मतः मार्गणा, यत्र च कल्पे स्थितो वर्तते तत्र सद्भावतः, उक्तं च-“खेत्ते दुहेह मग्गण जम्मणओ चेव संतिभावे य । जम्मणओ जहि जातो संतीभावो य जहि कप्पो॥१॥" तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चखैरावतेषु, न तु महाविदेहेषु, न चैतेषां संहरणमस्ति, येन जिनकल्पिक इव संहरणतः सर्वासु कर्मभूमिषु अकर्मभूमिषु वा प्राप्येरन् , उक्तं च-"खेत्ते भरहेरवएसु होन्ति संहरणवजिया नियमा" १ कालद्वारे-अवसर्पिण्यां तृतीये चतुर्थे वारके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सदभावः पुनः तृतीये चतुर्थे वा, उक्तं च-"ओसप्पिणीए दोसुं जम्मणओ तीसु संतीभावेण । उस्सप्पिणि विवरीओ जम्मणओ संतिभावेण ॥१॥" नोत्सपिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न संभवन्ति, महाविदेहक्षेत्रे तेषामसंभवात् २॥ चारित्रद्वारे-संयमस्था
१क्षेत्रे द्विधेह मार्गणा जन्मतश्चैव सद्भावे च । जन्मतो यत्र जातः सद्भावतश्च यत्र कल्पः ॥ १॥ २ क्षेत्रे भरतैरावतेषु भवन्ति संहरणवर्जिता नियमात् । ३ अवसर्पिण्या द्वयोर्जन्मतः तिसृषु सद्भावतः । उत्सर्पिण्यां विपरीतो जन्मतः सद्भावेन ॥१॥
For Personal & Private Use Only
painelibrary.org