________________
भिकाङ्क्षते सर्वकाङ्क्षा-सर्वाण्येव दर्शनानि शोभनानीत्येवमनुचिन्तनं, इयं च द्विधाऽप्ययुक्ता, शेषदर्शनेषु षड्जीवनि-18 कायपीडाया असत्प्ररूपणायाश्च भावात् । तथा विचिकित्सा-मतिविभ्रमः फलं प्रति संशय इतियावत् निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेवं जिनशासनं, किन्तु प्रवृत्तस्य सतो ममास्मात् फलं भविष्यति न वा ?, क्रियायाः कृषिबलादिष उभयथाऽप्यपलब्धेः' इतिविकल्परहितः, न यविकल उपाय उपेयवस्तप्रापको न | भवतीति संजातनिश्चयो निर्विचिकित्स इति भावः. एतावताशेन निःशङ्किताद भिन्नः, यद्वा 'निविदुगुंछो' इति निर्विद्वजुगुप्सः साधुजुगुप्सारहित इत्यर्थः, उदाहरणं च विद्वजगुप्सायां श्रावकदुहिता । तथा 'अमूढदिट्ठी यत्ति' बालतपखितपोविद्यातिशयदर्शनैर्न मूढा-खभावाचलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं || सुलसाश्राविका, सा खम्बडपरिव्राजकसमृद्धीरुपलभ्यापि न संमोहं गता। तदेवं गुणिप्रधान आचार उक्तः, सम्प्रति गुणप्रधानमाह-उववूह' इत्यादि, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं धर्माद विषीदतां तत्रैव स्थापनं । वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकरणं, प्रभावना धर्मकथादिभिस्तीर्थप्रख्यापना । अयं च |गुणप्रधाननिर्देशो गुणगुणिनोः कथञ्चिदभेदख्यापनार्थः, अन्यथा एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः।।
म. ११
onal
For Personal & Private Use Only
INMainelibrary.org