________________
प्रज्ञापनायाः मलय० वृत्ती.
१ प्रज्ञापनापदे मनुष्यप्रज्ञा. (सू.३७)
॥६
॥
सहहणा' इति सम्यक्त्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धीयते इत्यर्थः । अस्य च दर्शनस्याचारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात् , अतस्तानुपदर्शयितुमाह-'निस्संकिय' इत्यादि, शङ्कनं शङ्कितं, देशशङ्का सर्वशङ्का चेत्यर्थः, निर्गतं शङ्कितं यस्मादसौ निःशङ्कितः, देशसर्वशङ्कारहित इति भावार्थः, तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति ?, सर्वशङ्का-प्राकृतनिबन्धत्वात्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, न चेयं देशशङ्का सर्वशङ्का वा युक्ता, यत इह द्विविधा भावाः, तद्यथा-हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, तत्साधकप्रमाणसद्भावात् , अहेतुग्राह्या अभव्यत्वादयः, अस्मदाद्यपेक्षया तत्साधकहेतूनामसंभवात् , प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतोऽपि च निबन्धः प्रवचनस्य बालाद्यनुग्रहार्थः, उक्तं च-"बालस्नीमूढमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥" अपि च-प्राकृतोऽपि निवन्धः प्रवचनस्य दृष्टेष्टाविरोधी अतः कथमवान्तरपरिकल्पनाशङ्का ?, सर्वज्ञमन्तरेणान्यस्य दृष्टेष्टाविरोधिवचनासंभवात् , निःशङ्कित इति जीव एवाहेच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षायां दर्शनाचार उच्यते, एतेन दर्शनदर्शनिनोः कथंचिदभेदमाह, एकान्तभेदे तु अदशेनिन इव तत्फलायोगतो मोक्षाभावप्रसङ्गः, एवमुत्तरेष्वपि त्रिषु पदेषु भावना कार्या, तथा 'निष्काङ्कित' इति, काङ्खणं काह्नितं निर्गतं काङ्कितं यस्मादसौ निष्काश्रितः, देशसर्वकाङ्क्षारहित इत्यर्थः, तत्र देशकाङ्क्षा-एक दिगम्बरादिदर्शनम
॥६
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org