________________
चिः, किमुक्तं भवति ? – यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम । संक्षेपरुचिमाह'अणभिग्गहिय' इत्यादि, नाभिगृहीता कुत्सिता दृष्टिर्येनासावनभिगृहीतकुदृष्टिः, अविशारदः प्रवचने जिनप्रणीते शेषेषु च कपिलादिप्रणीतेषु प्रवचनेषु अनभिगृहीतो न विद्यते आभिमुख्येनोपादेयतया गृहीतं - ग्रहणमस्य इत्यनभिगृहीतः, पूर्वमनभिगृहीत कुदृष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेन परदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः ॥ धर्मरुचिमाह - ' जो अत्थिकाय' इत्यादि, यः खलु जीवोsस्तिकायानां - धर्मास्तिकायादीनां धर्म- गत्युपष्टम्भकत्वादिरूपं खभावं श्रुतधर्म चारित्रधर्म च जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः ॥ तदेवं निसर्गाद्युपाधिभेदाद् दशधा रुचिरूपं दर्शनमुक्तं, सम्प्रति यैर्लिङ्गैरिदमुत्पन्नमस्ति इति निश्चीयते तानि लिङ्गान्युपदर्शयन्नाह - 'परमत्थसंथवो वा' इत्यादि, परमाश्च - तात्त्विकाश्च तेऽर्थाश्च-जीवाद - यस्ते परमार्थाः तेषु संस्तवः - परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमायाभ्यास इतियावत्, वाशब्दः समुच्चये, सुष्ठु सम्यग्रीत्या दृष्टाः परमार्था - जीवादयो यैस्ते सुदृष्टपरमार्थाः तेषां सेवना- पर्युपास्तिः सुदृष्टपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात्, वाशब्दोऽनुक्तसमुच्चये, यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः समुच्चये, तथा 'वावनकुदंसणत्ति' दर्शनशब्दः प्रत्येकमभिसंबध्यते, व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः- निहवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः - शाक्यादयस्तेषां वर्जनं व्यापन्नकुदर्शनवर्जनम्, अत्रापि स्त्रीत्वं प्राकृतत्वात्, 'सम्मत्त -
Jain Educationonal
For Personal & Private Use Only
ainelibrary.org