SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. १प्रज्ञापनापदे मनुष्यप्रज्ञा. | (सू.३७) 299990909999999 केवलया रोचते, कथम् ? इत्याह-एवमेतत् प्रवचनोक्तमर्थजातं नान्यथेति एष आज्ञारुचिर्नाम । सूत्ररुचिमाह-'जो सुत्तं' इत्यादि, यः सूत्रम्-अङ्गप्रविष्टमङ्गबाह्यं वा अधीयानतेन श्रुतेनाङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह-एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाजीवादीनामनेकानि पदानिप्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात् सम्यक्त्ववान् आत्मा शप्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथम् ? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदे शगतोऽपि तैलबिन्दुः समस्तमुदकमात्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः । अधिगमरुचिमाह-'सो होइ' इत्यादि, यस्य श्रुतज्ञानम तो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनं, ततोऽयमर्थः-प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः। |चशब्दादुपाङ्गानि च स भवत्यधिगमरुचिः। विस्ताररुचिमाह-'दवाण' इत्यादि, द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावा:-पर्याया यथायोगं सर्वप्रमाणैः-प्रत्यक्षादिभिः सर्वैश्च नयविधिभिः-नैगमादिनयप्रकारैः उपलब्धाः स विस्ताररुचिरिति ज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्या रुचेरतिनिर्मलरूपतया भावात् । क्रियारुचिमाह-दसण' इत्यादि, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं समाहारो द्वन्द्वः तस्मिन् तथा तपसि विनये च तथा सर्वासु समितिषु-ईर्यासमित्यादिषु सर्वासु च गुप्तिपु-मनोगुप्तिप्रभृतिषु यः क्रियाभावः स क्रियारु DaseSO99298992929 ॥ ५९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy