________________
धम्मरुइत्ति' रुचिशब्दस्यात्रापि प्रत्येकं संबन्धात् क्रियारुचिः संक्षेपरुचिर्धर्मरुचिरिति द्रष्टव्यं, तत्र क्रिया-सम्यक्-19 संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः, संक्षेपः-संग्रहः तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स संक्षेपरुचिः धर्मे| अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिरिति गाथासंक्षेपार्थः ॥ व्यासाथै तु सूत्रकृदेव खत आह-'भूयत्थेण' इत्यादि, 'भूयत्थेण' इति भावप्रधानो निर्देशः, ततोऽयमर्थः-भूतार्थत्वेन-सद्भूता अमी पदार्था इत्येवंरूपेण यस्याधिगताः-परिज्ञाता जीवाजीवाः पुण्यं पापमाश्रवं संवरः चशब्दाद् बन्धादयश्च, कथमधिगताः? इत्याह-'सहसम्मुइआ' इति आर्षत्वाद् विभक्तिलोपाच सहसंमत्या सह-आत्मना या संगता मतिः सा सहसंमतिः तया, किमुक्तं भवति–परोपदेशनिरपेक्षया जातिस्मरणप्रतिभादिरूपया मत्या, न केवलमधिगताः, किन्तु तान् जीवादीन् पदार्थान् वेदयतेऽनुरोचयति च तत्त्वरूपतयाऽऽत्मसात्परिणामयति चेति भावः, एष निसर्गरुचिर्विज्ञेय इति शेषः। अमुमेवार्थे स्पष्टतरमभिधित्सुराह-'जो जिणदिट्टे भावे' इत्यादि, यो जिनदृष्टान् भावान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुर्विधान् खयमेव-उपदेशनिरपेक्षः श्रद्दधाति, केनोलेखेन श्रद्दधाति ?, तत आह-'एवमेव एतत्-जीवादि यथा जिनदृष्टं नान्यथा इति, चः समुच्चये, एष निसर्गरुचिरिति ज्ञातव्यः ॥ उपदेशरुचिमाह-एए चेव' इत्यादि, एतानेव जीवादिभावान परेण छद्मस्थेन जिनेन वोपदिष्टान् श्रद्दधाति एष उपदेशरुचिरिति ज्ञातव्यः। आज्ञारुचिमाह-'जो हेउमयाणंतो' इत्यादि, यो हेतुं-विवक्षितार्थगमकमजानानः प्रवचनमाज्ञयैव तुशब्द एवकारार्थः।
Jan Educa
For Personal & Private Use Only
wasanelibrary.org