________________
?
अहिच्छत्रा ११ सुराष्ट्रेषु द्वारावती १२ विदेहेषु मिथिला १३ वत्सेषु कौशाम्बी १४ शाण्डिल्येषु नन्दिपुरं, १५ मलयेषु भद्दिलपुरं १६ वत्सेषु वैराटपुरं १७ वरणेषु अच्छापुरी १८ दशार्णेषु मृत्तिकावती १९ चेदिषु शौक्तिकावती २० वीतभयं सिन्धुषु सौवीरेषु २१ मथुरा शूरसेनेषु २२ पापा भङ्गेषु २३ मास (सा) पुरिवा (र्त्तायां) २४ कुणालेषु श्रावस्ती २५ लाटासु कोटिवर्ष २६ श्वेताम्बिकानगरी केकयजनपदार्द्ध एतावदर्द्धषड्विंशतिजनपदात्मकं क्षेत्रमार्य भणितं, कुतः इत्याह-' इत्थुष्पत्ती' इत्यादि, यस्मादत्र - एषु अर्द्धषड् विंशतिसंख्येषु जनपदेषु उत्पत्तिर्जिनानां तीर्थकराणां चक्रवर्तिनां रामाणां - बलदेवानां कृष्णानां - वासुदेवानां तत आर्य, एतेन क्षेत्रार्यानार्यव्यवस्था दर्शिता यत्र तीर्थकरादीनामुत्पत्तिस्तदार्य शेषमनार्यमिति । उक्ताः क्षेत्रार्याः, सम्प्रति जात्यार्यप्रतिपादनार्थमाह – सुगमं, नवरं यद्यपि शास्त्रान्तरेष्वनेका जातय उपवर्ण्यन्ते तथाऽपि लोके एता एव अम्बष्ठ - कलिन्द - वैदेह-वेदंग - हरित-चुंचुणरूपा इभ्यजातयोऽभ्यर्चनीया जातयः प्रसिद्धाः, तत एताभिर्जातिभिरुपेता जात्यार्या न शेषजातिभिः । 'तुण्णागा' इत्यादि, तुन्नाकाः - सूच्याजीविनः तन्तुवायाः - कुविन्दाः पट्ट्काराः - पट्टकूलकुविन्दाः, देयडा - दृतिकाराः वरुट्टाः - पिच्छिकाः छर्विकाः - कटादिकाराः कट्टपाउरा - काष्ठपादुकाकाराः, एवं मुंजपाउयारा, 'छत्तारा' छत्रकाराः, एवं शेषाण्यपि पदानि भावनीयानि । ब्राह्मी यवनानीत्यादयो लिपिभेदास्तु संप्रदायादवसेयाः । उक्ता भाषार्याः, सम्प्रति ज्ञानार्यानाह - ' से किं तं ' इत्यादि सुगमम् । दर्शनार्यानाह - अथ के ते दर्शनार्याः १, सूरिराह - दर्शनार्या द्विविधाः प्रज्ञप्ताः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org