SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १प्रज्ञापनापदे मनुष्यप्रज्ञा. (सू. ३६) प्रज्ञापना- पद्मवरवेदिका सर्वतः सामस्येन वनखण्डपरिक्षिप्ता, वनाच्च वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयानायाः मल- मुत्तमानां महीरुहाणां समुदायो वनं, यथा अशोकवनं चम्पकवनमिति, अनकजातीयानामुत्तमानां महीरुहाणां य० वृत्ती. समूहो वनखण्डः, उक्तं च जीवाभिगममूलटीकायाम-“एगजाइएहिं खण्डेहिं वणं, अणेगजाइएहिं उत्तमेहिं वण॥५१॥ संडे” इति, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने, परिक्षेपः पद्मवरवेदिकाप्रमाणः, अस्य च वनखण्डस्य वर्णकः प्रतिपादितोऽस्ति, स चातीव गरीयानिति नोपदर्शितः, केवलं जीवाभिगमटीकातोऽवसेयः, तस्यैव हिमवतः पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्य द्वितीयदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते. तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणप|श्चिमायां-नैऋतकोण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनाSमा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि-वायव्यकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमध्ये दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च-"चुल्लहिमवंतपुत्वावरेण विदिसासु सागरं तिसए गंतूणंतरदीवा तिण्णि सए हुन्ति विच्छिन्ना ॥१॥ अउणापन्ननवसए किंचूणं परिहि तेसिमे नामा। एगोरुयगाभा-1 सिय वेसाणिय चेव नंगूली ॥२॥" तत एषामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु ॥५१॥ Jain Education international For Personal & Private Use Only sow.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy