SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ रदिग्व्यवस्थिताः अष्टाविंशतिविधा अन्तरद्वीपास्तादृशा एव तावत्प्रमाणा तावदपान्तरालास्तन्नामान एव शिखरिप-15 वैतपर्वापरदिग्व्यवस्थिता अपि, ततोऽत्यन्तसदृशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तजातमनुष्या अप्यष्टाविंशतिविधा उक्ताः । तानेव नामग्राहमुपदर्शयति-तंजहा एगोरुया' इत्यादि, एते सप्त चतुष्काः, अष्टाविंशतिसंख्यत्वात् , एते च प्रत्येकं हिमवति शिखरिणि च, तत्र हिमवद्गतास्तावद्भाव्यन्ते-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवो नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्थः सर्वत्र तुल्यविस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितो बज्रमयतलविविधमणिकनकमण्डिततटभागदशयोजनावगाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्मइदशोभितशिरोमध्यभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चि| मायाञ्च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्य-12 न्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्यूनकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनु शतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पनवरवेदिकया सर्वतः परिमण्डितः, तस्याश्च पद्मवरवेदिकाया वर्णको जीवाभिगमटीकायामिव वेदितव्यः, साऽपि च | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy