________________
प्रत्येकं चत्वारि चत्वारि योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्न्यूनपञ्चषष्टिसहितद्वादशयोजन-18 शतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसराः जम्बूद्वीपवेदिकातश्चतुर्योजनशतप्रमाणान्तरा हयकर्णगजकर्णगोकर्णशष्कुलकर्णनामानश्चत्वारो द्वीपाः,तद्यथा-एकोरुकस्य परतो हयकर्णः आभासिकस्य परतो गजकर्णः वैपाणिकस्य परतो गोकर्णः नाङ्गोलिकस्य परतो शष्कुलीकर्ण इति।तत एतेषामपि हयकर्णादीनां चतुर्णा द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्ष प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा आदर्शमुख १ मेण्ढमुख २ अयोमुख ३ गोमुख ४ नामानश्चत्वारोद्वीपाः, तद्यथा-हयकर्णस्य परत आदर्शमुखः गजकर्णस्य परतो मेण्ढमुखः गोकर्णस्य परतोऽयोमुखः शष्कुलकर्णस्य परतो गोमुख इति । एवमग्रेऽपि भावना कार्या, एतेषामप्यादर्शमुखादीनां चतुणों द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षद् षड् योजनशतान्यतिक्रम्य षड़योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातः षड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । एतेषामप्यश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त २ योजनशतान्यतिक्रम्य सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पूर्वोक्तप्रमाणपद्म
dan Education
a
l
For Personal & Private Use Only
HOlinelibrary.org