________________
प्रज्ञापनायाः मलय० वृत्ती.
१प्रज्ञापनापदे खेचरपञ्चेन्द्रियपु. (सू.३५)
॥४९॥
याणं खहयरपंचिंदियतिरिक्खजोणियाणं पजतापजत्ताणं बारस जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खायं । सत्तहजाइकुलकोडिलक्ख नव अद्भतेरसाई च । दस दस य होन्ति नवगा तह बारस चेव बोद्धवा ॥ १०७॥ सेचं खहयरपंचिंदियतिरिक्खजोणिया, सेत्तं पंचिंदियतिरिक्खजोणिया । (मू० ३५)
अथ के ते खचरपञ्चेन्द्रियतैर्यगयोनिकाः, सूरिराह-खचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञसाः, तद्यथा'चम्मपक्खी' इत्यादि, चर्मात्मको पक्षौ चर्मपक्षी ती विद्येते येषां ते चर्मपक्षिणः, लोमात्मको पक्षौ लोमपक्षी तद्वन्तो लोमपक्षिणः, तथा गच्छतामपि समुद्गकवत् स्थितौ पक्षी समुद्गकपक्षौ तद्वन्तः समुद्गकपक्षिणः, विततौ नित्यमनाकुञ्चितौ पक्षौ येषां (तो) विततपक्षी तद्वन्तो विततपक्षिणः। 'से किं तं' इत्यादि, अथ के ते चर्मपक्षिणः १, चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः, तद्यथा-बल्गुली इत्यादि, एते च भेदा लोकतोऽवसेयाः, 'जे यावन्ने तहप्पगारा' इति,येऽपि चान्ये तथाप्रकाराः-एवंरूपास्ते चर्मपक्षिणो द्रष्टव्याः, उपसंहारमाह-'सेत्तं चम्मपक्खी'। लोमपक्षिप्रति|पादनार्थमाह-'से किं तं' इत्यादि, एते च लोमपक्षिभेदा लोकतो वेदितव्याः।समुदगकपक्षिप्रतिपादनार्थमाह'से किं तं' इत्यादि पाठसिद्धं, एवं विततपक्षिसूत्रमपि। 'ते समासओ' इत्यादि प्रागवद् भावनीयं, एतेषां द्वादश जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि।अमीषामपि शरीरादिषु द्वारेषु चिन्तनं स्त्रीपुनपुंसकानामल्पबहुत्वं |च जीवाभिगमटीकातः प्रतिपत्तव्यं, इह तु ग्रन्थगौरवभयान्न लिख्यते । अधुना विनेयजनानुग्रहाय द्वीन्द्रियप्रभृति
॥४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org