SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अभितरपाणीया सुदुल्लभजलपेरंता अणेगखंडीविदितजणदिन्ननिग्गमपवेसा सुबहुयस्सवि कुवियस्स जणस्स दुष्पहंसा यावि होत्था, तत्थ णं सालाडवीए चोरपल्लीए विजए णामं चोरसेणावई परिवसति अहम्मिए जाव (हणछिन्नभिन्नवियत्तए) लोहियपाणी बहुणगरणिग्गयजसे सूरे दढप्पहारे साहसिए सद्दवेही परिवसइ अह १ 'अभितर पाणीये 'ति व्यक्तं, 'सुदुल्लभजलपेरंता' सुष्ठु दुर्लभं जलं पर्यन्तेषु यस्याः सा तथा, 'अणेगखंडी' अनेका नश्यतां नराणां मार्गभूताः खण्डयः - अपद्वाराणि यस्यां साऽनेकखण्डीति 'विदियजणदिन्ननिग्गमप्पवेसा' विदितानामेव - प्रत्यभि - ज्ञातानां जनानां दत्तो निर्गमः प्रवेशश्च यस्यां सा तथा, 'सुबहुस्सवि' सुबहोरपि 'कुवियजणस्सवि' मोषव्यावर्त्तकलोकस्य दुष्प्रध्वस्या चाप्यभवत् २ 'अहम्मिए'त्ति अधर्मेण चरतीत्याधम्मिकः, यावत्करणात् 'अधम्मिट्टे' अतिशयेन निर्द्धर्म्मः अधर्मिष्टो निस्तूंशकर्म्मकारित्वात् 'अधम्मक्खाई' अधर्म्ममाख्यातुं शीलं यस्य स तथा 'अधम्माणुए' अधर्म्मकर्त्तव्यम् अनुज्ञा - अनुमोदनं यस्यासावधर्मानुज्ञः अधर्मानुगो वा 'अधम्मप्पलोयई' अधर्म्ममेव प्रलोकयितुं शीलं यस्यासावधर्म्मप्रलोकी 'अधम्मपलज्जणे' अधर्म्मप्रायेषु कर्म्मसु प्रकर्षेण रज्यते इति अधर्म्मप्ररजनः, रलयोरैक्यमिति कृत्वा रस्य स्थाने लकारः, 'अधम्मसीलसमुदायारे' अधर्म एव शीलं - स्वभावः समुदाचारच-यत्किञ्चनानुष्ठानं यस्य स तथा 'अधम्मेणं चैव वित्तिं कप्पेमाणे विहरइ' अधर्मेण - पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्म्मणा 'वृत्तिं' वर्त्तनं 'कल्पयन' कुर्वाणो 'विहरती 'ति आस्ते स्म, 'हणछिंदर्भिदवियत्तए' 'हन' विनाशय 'छिन्धि' द्विधा कुरु 'मिन्द' कुन्तादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनछिंदभिन्दविकर्त्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः अनुकरणरूपत्वादेषां, 'लोहियपाणी' प्राणिविकर्त्तनेन लोहितौ रक्तरक्ततया पाणी - हस्तौ यस्य स तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy