SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सदृक्-समान वयो येषां ते तथा तेषां 'सरिसलावण्णरूवजोव्वणगुणोववेयाणमिति सदृशेन लावण्येन-लवणिम्ना अतिसुभगया। शरीरकान्त्येति भावः, रूपेण-आकृत्या यौवनेन-यौवनिकया गुणैः-दक्षत्वप्रियंवदत्वादिभिरुपपेताः सदृशलावण्यरूपयौवनगुणोपपेतास्तेषां. 'एगाभरणवसनगहियनिज्जोगाणमिति एकः-समानः आभरणवसनादिः-आभरणवसनलक्षणो गृहीतो निर्योगः-उपकरणमर्थानाट्योपकरणं यैस्ते तथा तेषां, 'दुहओ संवेल्लियग्गनियत्थाणति द्विधातो-द्वयोः पार्श्वयोः संवेल्लितानि-संवृत्तानि अग्राणि यस्य तद् द्विधातःसंवेल्लिताग्रं न्यस्तं सामर्थ्यादुत्तरीयं यैस्ते तथा तेषां, तथा 'उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्यंतचित्तचिल्ललगनियंसणाणमिति, उत्पीडितः-अत्यन्ताबद्धश्चित्रपट्टो-विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनि|गमो भवति स सफेनकावर्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गन्ता-नाटयविधावुपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य • तत्तथा तत् चित्रं-चित्रवर्णं चिल्ललग-देदीप्यमानं निवसनं-परिधानं येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'एगावलिकंठरइयसोभंतवच्छपरिहत्थभूसणाण' मिति, एकावलियर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा, परिहत्थशब्दो देश्यः परिपूर्णवाचकः, पडिहत्थानि-पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषां, नट्टसज्जाणं' नृत्ये सज्जाःप्रगुणीभूता नृत्यसज्जास्तेषां । तदनन्तरं च यथोक्तविशेषणविशिष्टं वामं भुजं प्रसारयति, तस्माद-चामभुजात् अष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह-'सरिसयाणं सरित्तयाणं सरिव्ययाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिज्जोईणं दुहतोसंवेल्लियग्गनियत्थीणमिति पूर्ववत् 'आविद्धतिलयामेलाणं' आविद्धस्तिलक आमेलश्च-शेखरको यकाभिस्ता आविद्धतिलकामेलास्तासां 'पिणद्धगेवेज्जकञ्चुकाणमिति, पिनद्धं ग्रैवेयक-ग्रीवाभरणं कञ्चुकश्च यकाभिस्तास्तथा तासां, Jain Education For Personal & Private Use Only jainelibrary.oro
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy