SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी 'तएणमित्यादि, ततः पारिणामिक्या बुध्ध्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं, केवलं मया भक्तिरात्मीयो- नाट्यदर्शमलयगिरी-ठापदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते-स्तौति नमस्यति-कायेन बन्दित्वा नमस्यित्वा | नम् या वृत्तिःच 'उत्तरपुरच्छिमं दिसीभागमित्यादि सुमम, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमाणपीठिकासिंहासनतदुपर्युल्लोचाशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमित्यादि, ततः मूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा सू० २३ ॥४८॥ चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः। 'तए णमित्यादि, ततः मूर्याभो देवः। " तत्पथमतया' तस्य-नाट्यविधेः प्रथमतायां दक्षिण भुज प्रसारयति, कथम्भूतमित्याह 'नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुजलं' इति नानाविधानि माणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावणतया रत्नानि नानाविधानि कर्केतनादानि, तथा विमलानि निर्मलानि तथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमहन्तीति महार्हाणि तथा निपुणं-निपुणबुद्धिगन्य यथा भवति एवं ' ओविया ' इति परिकर्मितानि 'मिसिमिसंतात्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानिकलाचिकाभरणानि तुटितानि-बाहुरक्षका अन्यानि च यानि वरभूषणानि तैरुज्ज्वलं-भास्वरं तथा पीवरं-स्थूलं प्रलम्ब-दीर्घ । |'तए णमित्यादि, ततः-तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह-सदृशानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचि(श्चित् सदृशोऽपि वर्णतः सदृशो न भवति ततः सदृग्वर्णत्वक्प्रतिपादनार्थमाह-' सरि ॥ ४८ ॥ त्तयाण मिति, सदृशी-सदृग् वर्णत्वक् येषां ते तथा, सहक्त्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह–' सरियाणं' din Education For Personal & Private Use Only UNILantbrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy