________________
स्यापि ग्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह-सव्वतो जाणह सचओ पासह । सर्वतः सर्वत्र दिक्ष ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाह-सर्वकालम्-अतीतमनागतं वर्तमानं च जानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित् सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपि ज्ञानं सर्वपर्यायविषयं न सम्भावयेत् यथा मीमांसकादिः अत आह-सर्वान् भावान्-पर्यायान् प्रतिद्रव्यमात्मीयान् परकीयांश्व केवलवेदसा जानीथ केवलदर्शनेन पश्यथ, अथ भावा दर्शनविषया न भवन्ति ततः कथमुक्तं-'सव्वे भावे पासह ' इति ?, नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति, अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्तम्-" निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते,"इति, ततो 'जाणंति णमितिपूर्ववत देवानां प्रियाः पूर्वमपि अनन्तरमुपदर्यमाननाट्यविधेः पश्चादपि च उपदर्यमाननाट्यविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवर्द्वि दिव्यां दवद्युति दिव्यं देवानुभावं लब्धं (लब्धं) देशान्तरगतमपि किश्चिद्भवति तत आह-प्राप्तं, प्राप्तमपि किञ्चिदन्तरायवशादनात्मवशं भवति तत आहअभिसमन्वागतं, तत 'इच्छामि णमित्यादि, इच्छामिणमितिपूर्ववत् देवानां प्रियाणां पुरतो भक्तिपूर्वकं-बहुमानपुरस्सरं गौतमादीनां श्रमणानां निग्रन्थानां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावमुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्यकारं नाट्यावध-नाट्यविधानमुपदर्शयितुमिति । 'तए णमित्यादि, ततः श्रमणो भगवान् महावीरः मूर्याभेण देवेन एवमुक्तः सन् मूर्याभस्य देवस्यैनम्-अनन्तरोदितमर्थं नाद्रियते-न तदर्थकरणायादरपरो भवति, नापि परिजानाति–अनुमन्यते, स्वतो वीतरागत्वात् गौतमादीनां च नाट्यविधेः स्वाध्यायादिविघातकारित्वात् , केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति ।
Jain Education
For Personal & Private Use Only
Dainelibrary.org