________________
नाटयदर्श
नम्
मू०२३
श्रीराजप्रश्नी समागतस्तामेव दिशं प्रतिगतः । सम्पति सूर्याभो देवो धर्मदेशनाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृ- मलयमिरी-च्छिपुर्यत्करोति तदाह-'तए णमित्यादि, 'भवासद्धिए' इति वैः सिद्धिर्यस्यासौ भवसिद्धिको, भव्य इत्यर्थः, तद्विपरीतोऽभवासया वृत्तिः द्धिकः, अभव्य इत्यर्थः, भव्योऽपि कश्चिान्मथ्यादृष्टिभवति कश्चित्सम्यग्दृष्टिस्तत आत्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति-सम्यग
दृष्टिको मिथ्यादृष्टिकः, सम्यग्दृष्टिरपि कश्चित्परिमितसंसारो भवति कश्चिदपरिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाश्चि॥४७॥
दनन्तसंसारभावाद्, अतः पृच्छति-परीत्तसंसारिकोऽनन्तसंसारिकः ?, परीत्तः-परिमितः स चासौ संसारश्च परीनसंसारः सोऽस्यास्तीति परीत्तसंसारिकः, 'अतोऽनेकस्वरादि'कप्रत्ययः, एवमनंतश्चासौ संसारश्चानन्तसंसारः सोऽस्यास्तीति अनन्तसंसारिकः, परीत्तसंसारिकोऽपि कश्चित् सुलभबोधिको भवति यथा शालिभद्रादिकः, कश्चिदुर्लभबोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधिः-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः, एवं दुर्लभबोधिकः, सुलभवोधिकोऽपि कश्चिद्घोधिं लब्ध्वा विराधयति ततः पृच्छति-आराधयति-सम्यक् पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चितद्भवमोक्षगामी न भवति ततः पृच्छति-चरमोऽचरमो वा?, चरमोऽनन्तरभावी भवो यस्यासौ चरमः ' अभ्रादिभ्य |इति मत्वर्थीयोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते मूर्याभादिः श्रमणो भगवान् महावीरस्तं मूर्याभं देवमेवमवादीत्-भोः मूर्याभ! त्वं भवसिद्धिको नाभवसिद्धिकः, यावत्करणात् 'सम्मद्दिट्टी नो मिच्छादिट्टी परित्तसंसारिए नो अणंतसंसारिए मुल्लभबोहिए नो दुल्लभबोहिए आराहए नो विराहए ' इति परिग्रहः ॥ 'तुम्भे णं भंते !' तुम्भे इति यूयं णमिति वाक्यालङ्कारे भदन्त ! सर्व केवलवेदसा जानीथ सर्व केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकात्स्न्ये ऽपि वर्त्तते यथा अस्य सर्व
॥४७॥
in Education
For Personal & Private Use Only
www.jainelibrary.org