SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नाट्यविधिः मृ०२३ श्रीराजप्रश्नी 'नानामणिकगारयणभूसणविराइयंगमंगीण मिति, नानाविधानि मणिकनकरत्लानि येषु भूषणेषु तानि नानामणिकनकरत्नानि | मलयगिरी-तैर्नानामणिकनकरत्नैर्भूषणैर्विराजितान्यङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यासां तास्तथा तासां, 'चंदाणणाणं चन्दद्धसपनिडालाणं चन्दाया वृत्तिः हियसोमदंसगाणं उक्का इव उज्जोवेमाणीणमिति सुगम 'सिङ्गारागारचारुवेसाणं हसियभणियचिद्वियविलाससलालयसंलावणिउण जुत्तोवयारकुसलाणं गहियाउज्जाणं नट्टसजाणमिति पूर्ववत् । 'तए णं से भूरियाभे देवे' इत्यादि, ततः (स) मूर्याभो देवोऽष्टशतं शङ्वानां ॥४९॥ विकुर्वति, अष्टशतं शङ्खवादकानाम् १, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशतं शङिकानां अष्टशतं शडिकावादकानां२, हस्वः शङ्को जात्यन्तरात्मकः शडिका, तस्या हि स्वरो मनाक तक्ष्णिो भवति, न तु शङबदतिगम्भीरः, तथा अष्टशतं खरमुखीना-काहलानां | अष्टशतं खरमुखीवादकानाम् ३, अष्टशतं पेयाना, पेया नाम महती काहला, अष्टशतं पेयावादकानां ४, अष्टशतं पीरिपीरिकाणां-कोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकानां ५ अष्टशतं पणवानां, पणयो-भाण्डपटहो लघुपटहो वा अष्टशतं पणववादकानां ६ अष्टशतं पटहानां अष्टशतं पटहवादकानां ७ अष्टशतं भम्भानां भम्भा-ढक्का अष्टशत भम्भावादकानां ८ अष्टशतं होरम्भाणा, होरम्भा-महाढ का अष्टशतं होरम्भावादकानां ९ अष्टशतं भेरीणां-ढक्काकृतिवाद्यविशेषरूपाणामष्टशतं भेरीवादकानां १० अष्टशतं झल्लरीणां झल्लरीनाम-चौवनद्धा विस्तीर्णवलयाकारा अष्टशतं झल्लरीवादकानां ११ अष्टशतं दुन्दुभीनामष्टशतं दुन्दुभिवादकानां दुन्दुभिर्याकारा सङ्कटमुखी देवातोद्यविशेषः १२ अष्टशतं मुरुजानां महाप्रमागो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां |१३ अष्टशतं मृदङ्गानां लघुमदलो मृदङ्गोऽष्टशतं मृदङ्गवादकानां १४ अष्टशतं नन्दीमृदङ्गाना नन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां १५ अष्टशतमालिङ्गानां आलिङ्गने-मुरजवाद्यविशेष एवाष्टश ॥४९॥ Jain Educati o nal For Personal & Private Use Only SNMainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy