SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूयाभनिर्गमः मू०१६ श्रीराजप्रश्नी दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात् , अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्धुता विजयमूचिका मलयगिरी- वैजयन्तीति विजयवैजयन्ती च उत्सृता-ऊर्वीकृता गगनतलम्-अम्बरतलमनुलिखन्ती-अभिलङ्घयन्ती 'पुरतो' यथानुपूा सम्पया वृत्तिःस्थिता । 'तयनंतरं च णमित्यादि, तदनन्तरं 'वेरुलियभिसंतविमलदंड मिति 'वैड्र्यो ' वैडूर्यरत्नमयो भिसंतो-दीप्यमानो विमलो निर्मलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोवसोहिय'मिति, प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्ना-कोरण्ट॥४१॥ पुष्पमालयोपशोभितं प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्त्या शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्वीकृतं विमलमातपत्रं तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या-विच्छित्त्या चित्रं यत् तन्मणिरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त'मिति, पादुकायोगः-पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्गहियमिति बहुभिः किङ्करैः-किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूा सम्पस्थितं । तदनन्तरं 'वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपइदिए'त्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं वर्तुलं लष्ठं-मनोज्ञं संस्थितं संस्थानमाकारो यस्य स वृत्तलष्टसंस्थितः तथा सुश्लिष्टः-सुश्लेषापन्नावयवो ममृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशानया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पापाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकपतिततया वक्रः तत एतेषां पदानां पदद्वयमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथा अनेकानि-अनेकसख्याकानि वराणि-प्रधानानि पञ्चवण्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवरपञ्चवर्णकुडभीसहस्रोत्सृतः, क्तान्तस्य परनिपातो सुखादिदर्शनात्, वातोद्भूतविजयवैजयन्तीपताकाच्छनातिच्छत्रकलितः, तुङ्गः-अत्युच्चो योजनसहस्रप्रमाणोच्छ्यत्वात् ,तथा गगनतलम्-अम्बरतलमनुलिखत् शिखरम्-अग्रभागो ॥४१॥ Jain Education For Personal & Private Use Only Alainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy