________________
'तए णं से मुरियाभे देवे' इत्यादि, दिव्यं-प्रधानं जिनेन्द्रस्य-भगवतो वर्द्धमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियं रूपं विकुति, विकुचित्वा चतसृभिरग्रमहिषीमिः सपरिवाराभिभ्यामनीकाभ्यां तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च, सार्द्ध, तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टो, यथा समानगुणविभवयोर्द्वयोर्मित्रयोः अतः स्वस्वामिभावप्रकटनार्थमाह-संपरिबुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परितृतः तत् दिव्यं यानावमानमनुप्रदीक्षणीकुर्वन् पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्वसिंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण ' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइ'त्ति आरोहति, आरुह्य च 'जेणेवेति यस्मिन्नेव देशे तस्य मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन् पूर्वाभिमुखः 'सन्निषण्णः' सम्यक्-सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः । 'तए णमित्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् | दिव्यं यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुचणत्येहिं' इत्यादि, अत्र सप्तम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति । 'तए णमित्यादि, ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्पस्थितानि, तद्यथा-'सोत्थियसिरिवच्छे'त्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरं पूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूताः? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासु ता दर्शनरतिकाः,इह दर्शनरतिकमपिकिञ्चिदालोकदर्शनीयं न भवत्यमङ्गल्लत्वात् यथा गर्भवती युवतिः, अत आह-आलोके-बहिः प्रस्थानसमयभाविनि
Jain Education Int
al
For Personal & Private Use Only
Il
lainelibrary.org