________________
वातावरमा
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः
COLO
पूर्वस्यां चतसृणामग्रमहिषीणां सपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यानिमियानअष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि, दक्षिणापरस्यां नैर्ऋतकोण इत्यर्थः,
विमानबाह्यपर्षदो द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरं ।
करणम् तस्य सिंहासनस्य चतसषु दिक्षु अत्र सामानिकादिदेवभद्रासनानां पृष्ठतः मूर्याभस्य देवस्य सम्बन्धिना पोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायां चत्वारि
मू०१५ उत्तरतः सर्वसङ्ख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनानां विकुर्वति । 'तस्स णं दिवस्सेत्यादि, तस्य 'णमिति पूर्ववत दिव्यस्य यानविमानस्यायम्-अनन्तरं वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथानाम अचिरोद्गतस्य-क्षणमात्रमुद्गतस्य ' हैमन्तिकस्य' शिशिरकालभाविनो बालमूर्यस्य स ह्यत्यन्तमारक्तो भवति दीप्यमान-I |श्चेत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादिराङ्गाराणि वा 'रत्ति'मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथा-' उय विणयभत्तिल्ले पूरेमसिसिरे दहे गए मूरे कत्तो रत्तिं सुद्धे पाणियसद्धा सउणयाणमि' त्यत्र, ततोऽयमर्थः-रात्रौ प्रज्वलितानां जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन 'सङ्कसुमितस्य' सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति-
याप एतेषां वर्णः 'भवेयारूवे सिया' इति स्यात्-कथश्चिद् भवेदेतद्रुपस्तस्य दिव्यस्य यानविमानस्य वर्णः?10 मूरिराह-'नो इणद्वे समठे, तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इद्रुतराए चेव कंततरागे चेव मणुन्नतरागे चेव मणामत- ||३९॥ रागे चेव वण्णे पण्णत्ते' इति प्राग्वत् व्याख्येयम्, 'गंधो फासो जहा मणीणमिति गन्धः स्पर्शः यथा प्राग् मणीनामुक्तस्तथा ।
POOROLODA
Jain Education
ON
For Personal & Private Use Only
MOTinelibrary.org