________________
Jain Education In
7070380868702703873878583807
भिस्तदर्धोच्चत्वप्रमाणमात्रैः 'सर्वतः सर्वासु दिक्षु समन्ततः- सामस्त्येन सम्परिक्षिप्तं - व्याप्तं । ' ते णं दामा' इत्यादि, तानि पञ्चापि दामानि ' तवणिज्जलंबूसगा ( गग्गा १ ) तपनीयमया लम्बूसगा - आभरणविशेषरूपा ( पाः सुवर्णप्रतरकाः सुवर्णपत्राणि तैः मण्डितं - शोभितं अग्रं - अग्रभागो येषां तानि तथा अ ) ग्रभागे येषां प्रलम्बमानानां तानि तथा, 'नानामणिरत्नैः ' नानामणिरत्नमयैर्विविधैः - विचित्रैहारैरर्द्धहारैश्चोपशोभितः - सामस्त्येनोपशोभितः समुदायो येषां तानि तथा, तथा ईषत् - मनाक् अन्योऽन्यं - परस्परं असंप्राप्तानि - असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः ( वातैः ) मन्दाय मन्दाय इति मन्दं मन्दं 'एज्जमानानि' कम्पमानानि ' भृशाभीण्याविच्छेदे द्विः प्राकृतमवादे' रित्यविच्छेदे द्विर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशा| देव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि २ ततः परस्परं सम्पर्कवशतः 'पेज्जंजमाणा पेज्जंजमाणा' इति शब्दायमानानि २ उदारेण स्फारेण शब्देनेति योगः, स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह-' मनोज्ञेन ' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतो स्यादत आह-' मनोहरेण ' मनांसि श्रोतॄणां हरति - एकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेराकृतिगणत्वादच् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत इत्याह-' कर्णमनोनिर्वृतिकरेण 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् हेतौ तृतीया, ततोऽयमर्थः प्रतिश्रोतृ कर्णयोर्मनसश्च निरृतिकरः- सुखोत्पादकस्ततो मनोहरस्तेनेत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतो दिक्षु समन्ततो- विदिक्षु आपूरयन्ति २, शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया -शोभया अतीवोपशोभमानानि २ तिष्ठन्ति । 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थः, उत्तरेण-उत्तरस्यां ' उत्तरपुरच्छिमेणं' ईशान्यां 'अत्र' एतासु तिसृषु दिक्षु सूर्याभस्य देवस्य चतुर्णी सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि विकु
For Personal & Private Use Only
685035586038387056
Sinelibrary.org