SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ EMINARO शब्दास्तैः सम्पणादितं सम्यक्-श्रोत्रमनोहारितया प्रकर्षेण नादितं-शब्दवद् दिव्यत्रुटितशब्दसम्पणादितं, 'अच्छं जाव पडिरूवामिति यावच्छब्दकरणात् ' अच्छं सहं घटुं मटुं नीरयं निम्मलं निप्पंक निकंकडच्छायं सप्प समिरियं सउज्जोयं पासाइयं दरिसणिजं अभिरूवं पडिरूव ' मिति द्रष्टव्यं, एतच्च प्राग्वव्याख्येयं । तस्स णमि 'त्यादि, तस्य ‘णमिति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः मध्ये बहुसमरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा-आलिंगपुष्करमिति वे त्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह-'जावमणीणं फासो' इति । 'तस्स णमित्यादि, तस्य णमिति पूर्ववत् प्रेक्षागृहमण्डपस्य उल्लोकम्-उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिरूवामि' ति, यावच्छब्दकरणात् 'अच्छं सहमित्यादिविशेषणकदम्बकपरिग्रहः । तस्स णमि' त्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण 'मिति पूर्ववत् एकं महान्तं वज्रमयमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैका महतीं मणिपीठिका विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन-उच्चैस्त्वेनेति | भावः, कथंभूतां तां विकुर्वन्तीत्यत आह'सर्वमणिमयीं' सर्वात्मना मणिमयीं यावत्करणादच्छामित्यादिविशेषणसमूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रुपो वर्णावासः प्रज्ञप्तः, तद्यथा-तपनीयमयाः चक्कला रजतमयाः सिंहास्तरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाः सुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गात्राणि वज्रमया-वज्ररत्नापूरिताः सन्धयो-गात्राणां सन्धिमेलाः नानामणिमयं वेचं-तज्जातः से णं सीहासण इत्यादि तत् सिंहासनमीहामृगऋषभतुरगनरमकरव्यालककिन्नररुरुसरभचमरवनलतापद्मलताभक्तिचित्रं '[सं] सारसारोवचियमणिरयणपायपीढ'मिति [सं]सारसारैः-प्रधानैः मणिरत्नैरुपचितेन पादपीठेन सह यत्तत्तथा, प्राकृतत्वाच्च पदोपन्यासव्य 150000 dain Education a l For Personal & Private Use Only PmMinelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy