________________
श्रीराजप्रश्नी रीयरूव'मिति प्राग्वत, कचिदेतन्न दृश्यते, 'कञ्चणमणिरयणथूभियाग'मिति काञ्चनं च मणयश्च रत्नानि च काञ्चनमणिर- दिव्ययानमलयगिरी-त्नानि तेषां तन्मयी स्तूपिका-शिखरं यस्य तत्तथा नानाविधाभिः-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन करणम् या वृत्तिः मण्डितमग्रं-शिखरं यस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरं, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-कि
मृ०१५ रणजालपरिक्षेपं विनिर्मुश्चत् 'लाउल्लोइयमहिय'मिति लाइयं नाम-यद्भूमेगोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटि॥३६॥
कादिभिः सम्पृष्टीकरणं लाउल्लोइयाभ्यामिव महितं-पूजितं लाउल्लोइयमहियं, तथा गोशीर्षण-गोशीर्षनामकचन्दनेन दर्दरेण बहलेन, चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र तद्गोशीर्षरक्तचन्दनददरदत्तपञ्चाङ्गुलितलं, तथा उपचिता-निवेशिताः चन्दनकलशा मङ्गलकलशा यत्र तदुपचितचन्दनकलश, 'चंदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटः- चन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारदेशभाग-द्वारदेशभागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलाब 'मिति आ-अवाङ्
अधोभूमौ लग्न इत्यर्थः, उत्सतं-ऊर्ध्वसक्तं उल्लोचतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः बग्धारिय इति-प्रलजाम्बितो माल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोत्सतविपुलवृत्तालम्बितमाल्यदामकलापं, तथा पञ्चवर्णेन सरसेन-सच्छा
|येन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितं, 'कालागुरुपवकारकुन्दुरुक्कतुरुक्कधूवमघमघतगन्धुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूय' मिति प्राग्वत, तथा अप्सरोगणानां सङ्यः-समुदायस्तेन
सम्यग्-रमणीयतया विकीर्ण-व्याप्तमप्सरोगणसङ्घविकीर्णं, तथा दिव्यानां त्रुटितानाम् आतोद्यानां वेणुवीणामृदङ्गादीनां ये 5
TA
dain Education
For Personal & Private Use Only
wwwgainelibrary.org